आरमनो वस्तुतः संसारासंस्पर्शे विद्वदनुभवविरोधः स्यात् , इति, चोदयति -
अथेति ।
एवमिति - आभिजात्यादिवैशिष्ट्यम् उक्तम् । इदमा क्षेत्रकलत्रादि । पण्डितानामपि प्रतीलं संसारित्वम् इति शेषः ।
किं पाण्डित्यं देहादौ आत्मदर्शनम् ? किं वा कूटस्थात्मदृष्टिः? आहो संसारित्वादिधीः? इति विकल्प्य आद्यं निराकुर्वन् आह -
श्रृण्विति ।
तच्च वस्तुतः असंसारित्वाविरोधि । प्रातिभासिकं तु संसारित्वम् इष्टम् , इति शेषः ।
द्वितीयं दूषयति -
यदीति ।
न हि कूटस्थात्मविषयं संसारित्वं प्रतीयते, येन वस्तुतः असंसारित्वां विरुध्येत ; कूटस्थात्मधीविरुद्धायाः संसारित्वबुद्धेः अनवकाशित्वात् , इत्यर्थः ।
आत्मानम् अक्रियं पश्यतोऽपि कुतो भोगकर्मणी न स्याताम् ? इत्याशङ्क्य, आह -
विक्रियेति ।
अविक्रियात्मबुद्धेः भोगकर्मकाङ्क्षयोः अभावे, कस्य शास्त्रे प्रवृत्तिः, इत्याशङ्क्य आह -
अथेति ।
फलार्थित्वाभावात् विदुषः न कर्मणि प्रवृत्तिः इत्येवं स्थिते सति अनन्तरम् अविद्वान् फलार्थित्वात् तदुपाये कर्मणि प्रवर्त्तते शास्त्राधिकारी, इत्यर्थः ।
विदुषः वैधप्रवृत्त्यभावेऽपि निषेधाधीननिवृत्तेरपि दुर्वचत्वात् तस्य निवृत्तिनिष्ठत्वासिद्धिः, इत्याशङ्क्य, आह -
विदुष इति ।