श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
इदं अन्यत् पाण्डित्यं केषाञ्चित् अस्तुक्षेत्रज्ञः ईश्वर एवक्षेत्रं अन्यत् क्षेत्रज्ञस्यैव विषयःअहं तु संसारी सुखी दुःखी संसारोपरमश्च मम कर्तव्यः क्षेत्रक्षेत्रज्ञविज्ञानेन, ध्यानेन ईश्वरं क्षेत्रज्ञं साक्षात्कृत्वा तत्स्वरूपावस्थानेनेतियश्च एवं बुध्यते, यश्च बोधयति, नासौ क्षेत्रज्ञः इतिएवं मन्वानः यः सः पण्डितापशदः, संसारमोक्षयोः शास्त्रस्य अर्थवत्त्वं करोमीति ; आत्महा स्वयं मूढः अन्यांश्च व्यामोहयति शास्त्रार्थसम्प्रदायरहितत्वात् , श्रुतहानिम् अश्रुतकल्पनां कुर्वन्तस्मात् असम्प्रदायवित् सर्वशास्त्रविदपि मूर्खवदेव उपेक्षणीयः

तृतीयम् उत्थापयति -

इदं चेति ।

सिद्धान्तात् अविशेषम् आशङ्क्य, क्षेत्रस्य क्षेत्रज्ञात् वस्तुतो भिन्नत्वेन तद्विषयत्वाङ्गीकारात् , मैवम् , इत्याह-

क्षेत्रं चेति ।

अहन्धीवेद्यस्य आत्मनो वस्तुतः संसारित्वस्वीकाराच्च सिद्धान्तात् भेदो अस्ति, इत्याह -

अहन्त्विति ।

संसारित्वमेव स्फोरयति -

सुखीति ।

संसारित्वास्य वस्तुत्वे तदनिवृत्त्या पुमर्थासिद्धिः, इत्याशङ्क्य, आह -

संसारेति ।

कथं तदुपरमस्य हेतुं विना कर्तव्यत्वम् ? इत्याशङ्क्य, आह -

क्षेत्रेति ।

क्षेत्रं ज्ञात्वा ततो निष्कृष्टस्य क्षेत्रज्ञस्य ज्ञानं कथं संसारोपरतिम् उत्पादयेत् ? इत्याशङ्क्य, आह -

ध्यानेनेति ।

संसारित्वम् आत्मनो बुध्यमानस्य तद्रहितात् ईश्वरात् अन्यत्वम् इति वक्तुम् इतिशब्दः । तदेव अन्यत्वम् उपपादयति -

यश्चेति ।

मम संसारिणः असंसारीश्वरत्वं कर्तव्यम् इत्येवं यो बुध्यते, यो वा तथाविधं ज्ञानं तव कर्तव्यम् इति उपदिशति ; स क्षेत्रज्ञात् ईश्वरात् अन्यो ज्ञेयः अन्यथा उपदेशानर्थक्यात् , इत्यर्थः ।

आत्मा संसारी परस्मात् आत्मनः अन्यः, तस्य ध्यानाधीनज्ञानेन ईश्वरत्वं कर्तव्यम् , इत्येतद् ज्ञानं पाण्डित्यम् , इति मतं दूषयति -

एवमिति ।

‘अयमात्मा ब्रह्म’ (बृ. उ. २-५-१९) इति आत्मनो ब्रह्मत्वश्रुतिविरोधात् , इत्यर्थः ।

ननु, संसारस्य वस्तुत्वाङ्गीकारात् तत्प्रतीत्यवस्थायां कर्मकाण्डस्य अर्थवत्त्वम् , संसारित्वनिरासेन आत्मनो ब्रह्मत्वे ध्यानादिना साधिते, मोक्षावस्थायां ज्ञानकाण्डस्य अर्थवत्त्वम् , तत्कथं यथोक्तज्ञानवान् पण्डितापसदत्वेन आक्षिप्यते? तत्राह -

संसारेति ।

करोमि इति मन्यमानो यः, स पण्डितापसद इति पूर्वेण सम्बन्धः । कर्मकाण्डं हि कल्पितं संसारित्वम् अधिकृत्य साध्यसाधनसम्बन्धं बोधयत् अर्थवत् इष्टम् । ज्ञानकाण्डमपि तथापिधं संसारित्वं पराकृत्य अखण्डैकरसे प्रत्यग्ब्रह्मणि पर्यवस्यदु अर्थवत् भवेत् , इत्यर्थः ।

किं च, आत्मनः शास्त्रसिद्धं ब्रह्मत्वं त्यक्त्वा अब्रह्मत्वं कल्पयन् आत्महा भूत्वा लोकद्वयबहिर्भूतः स्यात् , इत्याह -

आत्महेति ।

ननु, ‘क्षेत्रज्ञं चापि मां विद्धि’ इत्यनेन सर्वत्र अन्तर्यामी परः जीवादन्यः निरुच्यते, न जीवस्य ईश्वरत्वम् अत्र प्रतिपाद्यते । तत् कथम् इत्थम् आक्षिप्यते ? तत्राह -

स्वयमिति ।

किञ्च, तत्वमसीतिवत् प्रसिद्धक्षेत्रज्ञानुवादेन अप्रसिद्धं तस्य ईश्वरत्वम् इह उपदेशतः धृतं तस्य हानिम् , अश्रुतस्य च जीवेश्वेरयोः तात्विकभेदस्य कल्पनां कुर्वन् कथं व्यामूढो न स्यात् ? इत्याह -

श्रुतेति ।

ननु, केचन व्याख्यातारः यथोक्तं पाण्डित्यं पुरस्कृत्य क्षेत्रज्ञे चापि इत्यादिश्लोकं व्याख्यातवन्तः ; तत्कथम् उक्तपाण्डित्यम् आस्थातुः व्यासू़टत्वम् ? तत्राह -

तस्मादिति ।