‘क्षेत्रज्ञं चापि’ इत्यत्र क्षेत्रज्ञेश्वरयोः ऐक्यं स्वाभीष्टं स्पष्टयितुं प्रत्युक्तमेव चोद्यम् अनुद्रवति -
यत्तूक्तमिति ।
तात्त्विकम् एकत्वम् , अतात्त्विकं संसारित्वम् , इत्यङ्गीकृत्य उक्तमेव समाधिं स्मारयति -
एताविति ।
ईश्वरस्य संसारित्वं संमार्यभावेन संसाराभावश्च इत्युक्तौ दोषौ, विद्याविद्ययोः वैलक्षण्येऽपि कथं प्रत्युक्तौ, इति दृच्छति-
कथमिति ।
कल्पितसंसारेण कल्पनाधिष्ठानम् अद्वयं वस्तु वस्तुतो न सम्बद्धम् , इति परिहरति-
अविद्येति ।
तद्विषयम् - कल्पनास्पदम् अधिष्ठानम् , इति यावत् ।
कल्पितेन अधिष्ठानस्य वस्तुतः असंस्पर्शे दृष्टान्तं स्मारयति-
तथा चेति ।
ईश्वरस्य नंसारित्वाप्रसङ्गं प्रकटोकृत्य प्रसङ्गान्तरनिरासम् अनुस्मारयति -
संसारिण इति ।