श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
अत्र आहसा अविद्या कस्य इतियस्य दृश्यते तस्य एवकस्य दृश्यते इतिअत्र उच्यते — ‘अविद्या कस्य दृश्यते ? ’ इति प्रश्नः निरर्थकःकथम् ? दृश्यते चेत् अविद्या, तद्वन्तमपि पश्यसि तद्वति उपलभ्यमानेसा कस्य ? ’ इति प्रश्नो युक्तः हि गोमति उपलभ्यमानेगावः कस्य ? ’ इति प्रश्नः अर्थवान् भवतिननु विषमो दृष्टान्तःगवां तद्वतश्च प्रत्यक्षत्वात् तत्सम्बन्धोऽपि प्रत्यक्ष इति प्रश्नो निरर्थकः तथा अविद्या तद्वांश्च प्रत्यक्षौ, यतः प्रश्नः निरर्थकः स्यात्अप्रत्यक्षेण अविद्यावता अविद्यासम्बन्धे ज्ञाते, किं तव स्यात् ? अविद्यायाः अनर्थहेतुत्वात् परिहर्तव्या स्यात्यस्य अविद्या, सः तां परिहरिष्यतिननु ममैव अविद्याजानासि तर्हि अविद्यां तद्वन्तं आत्मानम्जानामि, तु प्रत्यक्षेणअनुमानेन चेत् जानासि, कथं सम्बन्धग्रहणम् ? हि तव ज्ञातुः ज्ञेयभूतया अविद्यया तत्काले सम्बन्धः ग्रहीतुं शक्यते, अविद्याया विषयत्वेनैव ज्ञातुः उपयुक्तत्वात् ज्ञातुः अविद्यायाश्च सम्बन्धस्य यः ग्रहीता, ज्ञानं अन्यत् तद्विषयं सम्भवति ; अनवस्थाप्राप्तेःयदि ज्ञात्रापि ज्ञेयसम्बन्धो ज्ञायते, अन्यः ज्ञाता कल्प्यः स्यात् , तस्यापि अन्यः, तस्यापि अन्यः इति अनवस्था अपरिहार्यायदि पुनः अविद्या ज्ञेया, अन्यद्वा ज्ञेयं ज्ञेयमेवतथा ज्ञातापि ज्ञातैव, ज्ञेयं भवतियदा एवम् , अविद्यादुःखित्वाद्यैः ज्ञातुः क्षेत्रज्ञस्य किञ्चित् दुष्यति

 मात्रपदस्य व्यावर्त्य मानयुक्त्याख्यम् अवष्टम्भान्तरम् इति वक्तुं केवलपदम् । यया अविद्यया विरुद्धमपि निर्वोढुं शक्यते, तस्याः स्वातन्त्र्याभावात् चितः अन्यस्य अविद्यमानत्वेन अतदाश्रयत्वात् , -तस्याः विद्यास्वभावतया तदाश्रयत्वव्याघातात् , आश्रयजिज्ञासया पृच्छति -

अत्राहेति ।

आश्रयमात्रं पृच्छ्यते? तद्विशेषो वा? प्रथमे, प्रश्नस्य अनवकाशत्वं मत्वा आह -

यस्येति ।

अविद्या दृश्या? अदृश्या वा? दृश्यत्वे, पारतन्त्र्यात् किञ्चिन्निष्ठत्वेनैव तदूदृष्टेः न आश्रयमात्रं प्रष्टव्यम् , अदृश्यत्वे वा, अप्रकाशत्वाद्  असिद्धिरेव स्यात् , इत्यर्थः ।

द्वीतीयम् आलम्बते -

कस्येति ।

अविद्यायाः दृश्यमानत्वात् आश्रयविशेषस्य आत्मनोऽपि स्वानुभवसिद्धत्वात् प्रश्नस्य निरवकाशता, इति उत्तरम् आह -

अत्रेति ।

प्रश्नानर्थक्यं प्रश्नद्वारा स्फोरयति -

कथमित्यादिना ।

तथापि कथं प्रश्नासिद्धिः? तत्राह -

न चेति ।

तदेव दृष्टान्तेन स्पष्टयति -

नहीति ।

दृष्टान्तदार्ष्टान्तिकयोः वैषम्यं चोदयति -

नन्विति ।

अज्ञानाश्रयस्य परोक्षत्वेऽपि प्रश्ननैरर्थक्यम् , इ्त्याह -

अप्रत्यक्षेणेति ।

अविद्यावतः अप्रत्यक्षत्वेऽपि तेन अविद्यासम्बन्धे सिद्धेप्रष्टुः तव प्रश्नानर्थक्यसमाधिः न कश्चित् , इत्यर्थः ।

अबुद्धपराभिसन्धिः शङ्कते -

अविद्याया इति ।

अविद्यावतः तत्परिहारात् न अन्येन प्रयतितव्यम् , इत्याह -

यस्येति ।

ममैव अविद्यावत्वात् तत्परिहारे मया प्रयतितव्यम् , इति शह्कते -

नन्विति ।

तर्हि प्रश्नानर्थक्यम् , इति सिद्धिान्ती स्वाभिसन्धिम् आह -

जानासीति ।

आत्मानम् अविद्यावन्तं जानन्नपि तद्बिषयाध्यक्षाभावत् पृच्छामि, इति शङ्कते -

जानामीति ।

अविद्यावतः अप्रत्यक्षत्वं वदता - तस्य ‘अहमविद्यावान् ‘ अविद्याकार्यावत्त्वात् , व्यतिरेकेण मुक्तात्मवत, इति अनुमेयत्वं इष्टम् , इति अभ्युपेत्य दूषयति -

अनुमानेनेति ।

आत्मनः अविद्यासम्बन्धग्रहे का अनुपपत्तिः? इति आशङ्क्य, ज्ञातैव आत्मा स्वस्य अविद्यासम्बन्धं बुध्यते? अन्यो वा ज्ञाता? इति विकल्प्य, आद्यं दूषयति -

न हीति ।

तत्काले स्वस्य अविद्यां प्रति ज्ञातृत्वावस्थायाम् , इति यावत् ।

अविद्यां विषयत्वेन गृहेत्वा तज्ज्ञातृत्वेनैव उपयुक्तस्य आत्मनः तस्याः स्वात्मनि कुतः सम्बन्धज्ञातृत्वम् ? एकस्य कर्मकर्तृत्वविरोधात् , इत्याह -

अविद्याया इति ।

दीतीयं निरस्यति -

न चेति ।

यो ग्रहीता, स  न सम्भवति, इति सम्बन्धः । तद्विषयमिति । ज्ञातुः अविद्यायाश्च सम्बन्धः तच्छब्दार्थः ।

अनवस्थामेव प्रपञ्चयति -

यदीति ।

आत्मनः स्वपरज्ञेयत्वायोगात् तस्मिन् अविद्यासम्बन्धस्य अप्रामाणिकत्वात् नित्यानुभवगम्यत्वे स्थिते, फलितं आह -

यदि पुनरिति ।

यदा च एवं, तदा इत्यध्याहार्यम् ।