ज्ञातुः आत्मनः न किञ्चिद् - दुष्यति इति, एतद् अमृष्यमाणः शङ्कते -
नन्विति ।
किं ज्ञातृत्वं ज्ञानक्रियाकर्तृत्वम् ? ज्ञानस्वरूपत्वं वा? नाद्यः, तदनभ्युपगमात् तत्प्रयुक्तदोषाभावात् । द्वीतीये ज्ञातृत्वस्य औपचरिकत्वात् न तत्कृतो दोषोऽस्ति, इत्याह -
नेत्यादिना ।
असत्यामपि क्रियायां क्रियोपचारं दृष्टान्तेन स्फुटयति -
यथेति ।
आत्मनि वस्तुतः विक्रियाभावे भगवदनुमतिं दर्शयति -
यथात्रेति ।
गीताशास्त्रं सप्तम्यर्थः । स्वत एव आत्मनि क्रियाद्यात्मत्वाभावः भगवता शास्त्रे यथोक्तः, तथैव व्याख्यातम् अस्माभिः, इति सम्बन्धः ।
कथं तर्हि क्रियादिः आत्मनि भाति? तत्राह -
अविद्येति ।
यथा वस्तुतो नास्ति आत्मनि क्रियादिः, उपचारात्तु भाति, तथा तत्र तत्र अतीतप्रकरणेषु भगवता कृतो यत्नः, इत्याह -
तथेति ।
न केवलम् अतीतेष्वेव प्रकरणेषु वास्तवक्रियाद्यभावात् आत्मनि आद्यासिकी तद्धीः उक्ता, किन्तु वक्ष्यमाणप्रकरणेष्वपि तथैव भगवदभिप्रायदर्शनं भविष्यति, इत्याह -
उत्तरेषु चेति ।