श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
हन्ततर्हि आत्मनि क्रियाकारकफलात्मतायाः स्वतः अभावे, अविद्यया अध्यारोपितत्वे, कर्माणि अविद्वत्कर्तव्यान्येव, विदुषाम् इति प्राप्तम्सत्यम् एवं प्राप्तम् , एतदेव हि देहभृता शक्यम्’ (भ. गी. १८ । ११) इत्यत्र दर्शयिष्यामःसर्वशास्त्रार्थोपसंहारप्रकरणे समासेनै कौन्तेय निष्ठा ज्ञानस्य या परा’ (भ. गी. १८ । ५०) इत्यत्र विशेषतः दर्शयिष्यामःअलम् इह बहुप्रपञ्चनेन, इति उपसंह्रियते ॥ २ ॥

आत्मनि वास्तवक्रियाद्यभावे अध्यासाच्च तत्सिद्धौ, कर्मकाण्डस्य अविद्वदधिकारित्वप्राप्तौ, ‘विद्वान् यजेत’ ‘ज्ञात्वा कर्मारभेत’ इत्यादिशास्रविरोधः स्यात् , इति शङ्क्ते -

हन्तेति ।

शास्रस्य व्यतिरेकविज्ञानाभिप्रायत्वात् अशनायाद्यतीतात्मधीविधरस्यैव  कर्मकाण्डाधिकारिता, इति अङ्गीकरोति -

सत्यमिति ।

कथम् अज्ञस्यैैव कर्मधिकारित्वम् उपपन्नम् ? इत्याशङ्क्य, आह -

एतदेव चेति ।

ज्ञानिनः ज्ञाननिष्ठायामेव अधिकारः, निष्ठान्तरे तु अज्ञस्यैव, इति उपसंहारप्रकरणे विशेषतः भविष्यति, इत्याह -

सर्वेति ।

तदेव अनुक्रामति -

समासेनेति ।

जीवब्रह्मणोः ऐक्याभ्युपगमे न किञ्चिद् अवद्यम् , इति उपसंहरति -

अलमिति

॥ २ ॥