श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एवं क्षेत्रक्षेत्रज्ञौ उक्तौकिम् एतावन्मात्रेण ज्ञानेन ज्ञातव्यौ इति ? इति उच्यते
एवं क्षेत्रक्षेत्रज्ञौ उक्तौकिम् एतावन्मात्रेण ज्ञानेन ज्ञातव्यौ इति ? इति उच्यते

दृश्यानां दुःखादीनां भेदकानां यावद्देहभाविनाम् अनात्मधर्मत्वसिद्धये द्रष्टारं देहात् अन्यम् उक्त्वा, साङ्ख्यानामिव तन्मात्रेण मुक्तिनिवृत्तये तस्य सर्वदेहेषु ऐक्योक्तिपूर्वकं स्वेन परमार्थेन अक्षरेण ऐक्यं वृत्तम् अनूद्य प्रश्नद्वारा दर्शयति-

एवमित्यादिना ।

यथोक्त - लक्षणम् - दृश्यात् देहात् निष्कृष्टं द्रष्टारम् इत्यर्थः । च, अपि इति निपातौ जीवस्य अक्षरत्वज्ञानस्य देहात् अन्यत्वज्ञानेन समुच्चयार्थौ भिन्नक्रमौ ; न क्षेत्रज्ञं साङ्ख्यवत् दृशयात् अन्यमेव विद्धि ; किन्तु मां चापि विद्धि इति सम्बध्यते ।