श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इदं शरीरम्इत्यादिश्लोकोपदिष्टस्य क्षेत्राध्यायार्थस्य सङ्ग्रहश्लोकः अयम् उपन्यस्यतेतत्क्षेत्रं यच्चइत्यादि, व्याचिख्यासितस्य हि अर्थस्य सङ्ग्रहोपन्यासः न्याय्यः इति

एवं श्लोकद्वयं व्याख्याय श्लोकान्तरम् अवतारयति -

इदमिति ।

कुत्र सङ्ग्रहोक्तिः उपयुज्येते?  तत्राह -

व्याचिख्यासितस्येति ।

प्रतिपत्तिसौकर्यार्थं सङ्ग्रहेक्तिः अर्थवती, इत्यर्थः ।