क्षेत्रादियाथात्म्यस्तुत्या प्रलोभिताय, किं तत् ? इति जिज्ञासवे यथोद्देशं क्षेत्रं निर्दिशति स्तुत्येति महत्वे हेतुमाह-
सर्वेति ।
भूतशब्देन स्थूलानामपि विशेषाभावात् ग्रहे का हानिः? इत्याशङ्क्य, आह -
स्थूलानीति ।
अहङ्कारः - अहंप्रत्ययलक्षण इति सम्बन्धः ।
भूतानां प्रतीतिकत्वेन अभिमानमात्रात्मत्वं मत्वा अहङ्कारं, विशिनष्टि -
महाभूतेति ।
‘महतः परम् ‘ इत्यादौ प्रसिद्धं महच्छब्दार्थम् अहङ्कारहेतुमाह -
अहङ्कारेति ।
ईश्वरशक्तिः इत्युक्ते चैतन्यमपि शङ्क्येत, तदर्यमाह -
ममेति ।
अवधारणरूपम् अर्थमेव स्फुटयति -
एतावत्येवेति ।
पञ्चतन्मात्राणि अहङ्कारः महत् अव्याकृतम् इति अष्टधा भिन्नत्वम् । मूलप्रकृत्या सह तन्मात्रादिभेदानां समुच्चयः चकारार्थः ।
दश इन्द्रियाण्येव विभज्य व्युत्पादयति -
श्रोत्रेत्यादिना ।
तदेव प्रश्नद्वारा स्फुटयति -
किन्तदिति ।
शब्दादिविषयशब्देन स्थूलानि भूतानि गृह्यन्ते ।
उक्तेषु तन्मात्रादिषु तन्त्रान्तरीयसंमतिमाह -
तानीति ।
‘मूलप्रकृतिरविकृतिः महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारः’ इति पठन्ति
॥ ५ ॥