उपलब्धजातीयस्य उपलभ्यमानस्य आदानेच्छायां हेतुमाह -
सुखेति ।
इतिशब्दः हेत्वर्थः । सुखहेतुत्वात् तस्मिन् इच्छा, इत्यर्थः ।
इच्छां सुखतद्धेतुविषयत्वेन व्याख्याय आत्मधर्मत्वं तस्य व्युदस्यति -
सेयमिति ।
तथापि कथं क्षेत्रान्तर्भूतत्वम् ? तत्राह -
ज्ञेयत्वादिति ।
इच्छावत् द्वेषोऽपि धर्मः बुद्धेः, इत्याह -
तथेति ।
कोऽसौ द्वेषः? यस्य बुद्धिधर्मत्वम् , तत्राह -
यज्जातीयमिति ।
तस्यापि इच्छावत् क्षेत्रान्तर्भावमाह सोऽयिमिति ।
इच्छाद्वेषवत् बुद्धिधर्मः सुखमपि, इत्याह -
तथेति ।
तस्यापि स्वरूपोक्त्या क्षेत्रान्तःपातित्वमाह -
अनुकूलमिति ।
दुःखस्यापि स्वरूपोक्त्या क्षेत्रमध्यवर्तित्वमाह -
दुःखमिति ।
देहेन्द्रियात्मवादौ व्युदसितुं क्षेत्रान्तर्भूतमेव सङ्घातं विभजते -
देहेति ।
विज्ञानवादं प्रत्याह -
तस्यामिति ।
तप्ते लोहपिण्डे वह्रेः अभिव्यक्तिवत् उक्तसंहतौ बुद्धिवृत्तिः अभिव्यज्यते । तत्र च अग्निः अभिव्यक्तः लोहपिण्डमेव अग्निबुद्ध्या ग्राहयति । तथा आत्मचैतन्यं बुद्धिवृत्तौ अभिव्यक्तं तामेव आत्मतया बोधयति । अतः तदाभासानुविद्धा सैव चेतना इत्युच्यते । सा च मुख्यचेतनं प्रति ज्ञेयत्वात् अतद्रूपत्वात् क्षेत्रमेव इत्यर्थः ।
धृतिस्वरूपोक्त्या क्षेत्रत्वं तस्या दर्शयति -
धृतिरित्यादिना ।
ननु - अऩ्येऽपि सङ्कल्पादयो मनोधर्माः सन्ति, ते किमिति अत्र क्षेत्रत्वेन नोच्यन्ते? तत्राह -
सर्वेति ।
तस्य उपलक्षणार्थत्वे हेतुमाह -
यत इति ।
इच्छादिवत् अस्मिन्नवसरे सङ्कल्पादीनामपि दर्शितत्वं सिद्धवत्कृत्य, प्रकरणविभागार्थं यतो भगवदुक्तं क्षेत्रमुपसंहरति, अतः युक्तम् इच्छादिग्रहस्य सर्वानु्क्तबुद्धिधर्मोपलक्षणार्थत्वम् इत्यर्थः ।
विरक्तस्य ज्ञानाधिकाराय वैराग्यार्थं क्षेत्रं व्याख्यातम् , इति अनुवदति -
यस्येति ।
क्षेत्रभेदजातस्य व्यष्टिदेहविभागस्य सर्वस्य इत्यर्थः । संहतिः - समष्टिशरीरम्
॥ ६ ॥