श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ८ ॥
इन्द्रियार्थेषु शब्दादिषु दृष्टादृष्टेषु भोगेषु विरागभावो वैराग्यम् अनहङ्कारः अहङ्काराभावः एव जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनं जन्म मृत्युश्च जरा व्याधयश्च दुःखानि तेषु जन्मादिदुःखान्तेषु प्रत्येकं दोषानुदर्शनम्जन्मनि गर्भवासयोनिद्वारनिःसरणं दोषः, तस्य अनुदर्शनमालोचनम्तथा मृत्यौ दोषानुदर्शनम्तथा जरायां प्रज्ञाशक्तितेजोनिरोधदोषानुदर्शनं परिभूतता चेतितथा

दृष्टादृष्टेषु अनेकार्थेषु रागे तत्प्रतिबद्धं ज्ञानं नोत्पद्येत, इति मत्वा व्याकरोति -

इन्द्रियेति ।

आविर्भूतो गर्वः अहङ्कारः, तदभावोऽपि ज्ञानहेतुः, इत्याह -

अनहङ्कार इति ।

इन्द्रियार्थेषु वैराग्यम् उक्तम् उपपादयति -

जन्मेति ।

प्रत्येकं दोषोनुदर्शनमित्युक्तम् , तत्र जन्मनि दोषानुदर्शनं विशदयति -

जन्मनीति ।

यथा जन्मनि दोषानुसधानम् , तथा मृत्यौ दोषस्य सर्वमर्मनिकृन्तनादेः आलोचनं कार्यम् , इत्याह -

तथेति ।

जन्मनि मृत्यौ च दोषानुसन्धानवत् , जरादिष्वपि दोषानुसन्धानं कर्तव्यम् , इत्याह -

तथेति ।