श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ८ ॥
व्याधिषु शिरोरोगादिषु दोषानुदर्शनम्तथा दुःखेषु अध्यात्माधिभूताधिदैवनिमित्तेषुअथवा दुःखान्येव दोषः दुःखदोषः तस्य जन्मादिषु पूर्ववत् अनुदर्शनम्दुःखं जन्म, दुःखं मृत्युः, दुःखं जरा, दुःखं व्याधयःदुःखनिमित्तत्वात् जन्मादयः दुःखम् , पुनः स्वरूपेणैव दुःखमितिएवं जन्मादिषु दुःखदोषानुदर्शनात् देहेन्द्रियादिविषयभोगेषु वैराग्यमुपजायतेततः प्रत्यगात्मनि प्रवृत्तिः करणानामात्मदर्शनायएवं ज्ञानहेतुत्वात् ज्ञानमुच्यते जन्मादिदुःखदोषानुदर्शनम् ॥ ८ ॥

व्याधिषु दोषस्य असह्यतारूपस्य अनुसन्धानम् , दुःखेषु त्रिविधेष्वपि दोषानुसन्धानं प्रसिद्धम् । व्याख्यानान्तरमाह -

अथवेति ।

यथा जन्मादिषु दुःखान्तेषु दोषदर्शनम् उक्तम् , तथा तेष्वेव दुःखाख्यदोषस्य दर्शनं स्फुटयति -

दुःखमित्यादिना ।

कथं जन्मादीनां बाह्येन्द्रियग्राह्याणां दुःखत्वम् ? तत्राह -

दुःखेति ।

जन्मादिषु दोषानुदर्शनकृतं फलमाह -

एवमिति ।

वैराग्ये सति आत्मदृष्ट्यर्थं करणानां त दाभिमुख्येन प्रवृत्तिरिति, वैराग्यफलमाह -

तत इति ।

जन्मदिदुःखदोषानुदर्शनम् ज्ञानहेतुषु किमिति उपसङ्ख्यातम् ? इत्याशङ्क्य, वैराग्यद्वारा धीहेतुत्वात् इत्याह -

एवमिति

॥ ८ ॥