व्याधिषु दोषस्य असह्यतारूपस्य अनुसन्धानम् , दुःखेषु त्रिविधेष्वपि दोषानुसन्धानं प्रसिद्धम् । व्याख्यानान्तरमाह -
अथवेति ।
यथा जन्मादिषु दुःखान्तेषु दोषदर्शनम् उक्तम् , तथा तेष्वेव दुःखाख्यदोषस्य दर्शनं स्फुटयति -
दुःखमित्यादिना ।
कथं जन्मादीनां बाह्येन्द्रियग्राह्याणां दुःखत्वम् ? तत्राह -
दुःखेति ।
जन्मादिषु दोषानुदर्शनकृतं फलमाह -
एवमिति ।
वैराग्ये सति आत्मदृष्ट्यर्थं करणानां त दाभिमुख्येन प्रवृत्तिरिति, वैराग्यफलमाह -
तत इति ।
जन्मदिदुःखदोषानुदर्शनम् ज्ञानहेतुषु किमिति उपसङ्ख्यातम् ? इत्याशङ्क्य, वैराग्यद्वारा धीहेतुत्वात् इत्याह -
एवमिति
॥ ८ ॥