ननु - असक्तिरेव अभिष्वङ्गाभावः, तथा च पुनरुक्तिः ‘इत्याशङ्क्य’ अभिष्वङ्गोक्तिद्वारा निरस्याति-
अभिष्वङ्गोनामेति ।
अन्यस्मिन्नेष पुत्रादौ अनन्यत्वधिया तद्गते सुखादौ आत्मनि तद्भावनाख्यं सक्तिविशेषमेव उदाहरति -
यथेति ।
उक्तविशेषणयोः आकाङ्क्षाद्बारा विषयमाह -
क्वेत्यादिना ।
उक्तविशेषणयोः ज्ञानशब्दस्य उपपत्तिमाह -
तच्चेति ।
सदा हर्षविषादशून्यभनस्त्वमपि ज्ञानहेतुः, इत्याह -
नित्यं चेति ।
तदेव विभजते-
इष्टेति ।
तस्य ज्ञानहेतुत्वं निगमयति - तच्तचैदिति
॥ ९ ॥