असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ ९ ॥
असक्तिः सक्तिः सङ्गनिमित्तेषु विषयेषु प्रीतिमात्रम् , तदभावः असक्तिः । अनभिष्वङ्गः अभिष्वङ्गाभावः । अभिष्वङ्गो नाम आसक्तिविशेष एव अनन्यात्मभावनालक्षणः ; यथा अन्यस्मिन् सुखिनि दुःखिनि वा ‘अहमेव सुखी, दुःखी च, ’ जीवति मृते वा ‘अहमेव जीवामि मरिष्यामि च’ इति । क्व इति आह — पुत्रदारगृहादिषु, पुत्रेषु दारेषु गृहेषु आदिग्रहणात् अन्येष्वपि अत्यन्तेष्टेषु दासवर्गादिषु । तच्च उभयं ज्ञानार्थत्वात् ज्ञानमुच्यते । नित्यं च समचित्तत्वं तुल्यचित्तता । क्व ? इष्टानिष्टोपपत्तिषु इष्टानामनिष्टानां च उपपत्तयः सम्प्राप्तयः तासु इष्टानिष्टोपपत्तिषु नित्यमेव तुल्यचित्तता । इष्टोपपत्तिषु न हृष्यति, न कुप्यति च अनिष्टोपपत्तिषु । तच्च एतत् नित्यं समचित्तत्वं ज्ञानम् ॥ ९ ॥