श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते
अनादिमत्परं ब्रह्म सत्तन्नासदुच्यते ॥ १२ ॥
अमृतत्वफलं ज्ञेयं मया उच्यते इति प्ररोचनेन अभिमुखीकृत्य आह सत् तत् ज्ञेयमुच्यते इति अपि असत् तत् उच्यते
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते
अनादिमत्परं ब्रह्म सत्तन्नासदुच्यते ॥ १२ ॥
अमृतत्वफलं ज्ञेयं मया उच्यते इति प्ररोचनेन अभिमुखीकृत्य आह सत् तत् ज्ञेयमुच्यते इति अपि असत् तत् उच्यते

अनादिमत्परं ब्रह्म, इत्यत्र पक्षान्तरं प्रतिक्षिप्य स्वपक्षः समर्थितः, सम्प्रति ब्रह्मणो ब्रह्मत्वादेव कार्यकारणात्मकत्वप्राप्तौ उक्तानुवादद्वारा ‘न सत् ‘ इत्यादि अवतारयति -

अमृतत्वेति ।

सत् - कार्यम् , अभिव्यक्तनामरूपत्वात् , असत् - कारणम् , तद्विपर्ययात् , इति विभागः ।