उत्तरग्रन्थमवतारयति -
यथोक्तेति ।
अमानित्वादीनां ज्ञानत्वम् आक्षिपति -
नन्विति ।
वस्तुपरिच्छेदकत्वात् ज्ञानत्वम् आशङ्क्य, आह -
नहीति ।
परिच्छेदकत्वात् ज्ञानत्वम् , ज्ञानत्वात् परिच्छेदकत्वम् , इति अन्योन्याश्रयात् , इत्यभिप्रेत्य, आह -
सर्वत्रेति ।
स्वार्थस्यैव ज्ञानं परिच्छेदकम् , इत्येतत् व्यतिरेकद्वारा विशदयति -
नहीति ।
त्र्यतिरेकदृष्टान्तमाह -
यथेति ।
अमानित्वादीनां ज्ञानत्वमाक्षिप्तं प्रतिक्षिपति -
नैष दोष इति ।
तत्र हेतुत्वेन उक्तं स्मारयति -
ज्ञानेति ।
तेषु ज्ञानशब्दे हेत्वन्तरमाहृ -
ज्ञानेति ।