उक्तप्रवृत्या चेतनास्तित्वसिद्धावपि कथं क्षेत्रज्ञास्तित्वम् ? इत्याशङ्क्य, चेतनस्यैव क्षेत्रोपाधिना क्षेत्रज्ञत्वात् चेतनास्तित्वं तदस्तित्वमेव, इत्याह -
क्षेत्रज्ञश्चेति ।
तस्य क्षेत्रोपाधित्वेऽपि कथं पाणिपादाक्षिशिरोमुखादिमत्वम् ? इत्याशङ्क्य आह -
क्षेत्रं चेति ।
अतश्च उपाधितः तस्मिन् विशेषोक्तः, इति शेषः ।
कथं तर्हि ‘न सत्तन्नासन् ‘ इति निर्विशेषोक्ति? इत्याशङ्क्य, आह -
क्षेत्रेति ।
पाणिपादादिमत्वम् औपाधिकं मिथ्या चेत् , ज्ञेयप्रवचनाधिकारे कथं तदुक्तिः? इत्याशङ्क्य, आह -
उपाधीति ।
मिथ्यारूपमपि ज्ञेयवस्तुज्ञानोपयोगि इत्यत्र वृद्धसंमतिमाह -
तथा हीति ।
पाणिपादादीनाम् अन्यगतानाम् आत्मधर्मत्वेन आरोप्य व्यपदेशे को हेतुः? इति, चेत् , तत्राह -
सर्वत्रेति ।
ज्ञेयस्य ब्रह्मणः, शक्तिः - सन्निधिमात्रेण प्रवर्तनसामर्थ्यम् , तत् सत्त्वं निमित्तीकृत्य स्वकार्यवन्तो भवन्ति पाण्यादयः इति कृत्वा, इति योजना ।
‘सर्वतोऽक्षि’ (भ. गी. ३-१३) इत्यादौ उक्तमतिदिशति -
तथेति ।
तत् ज्ञेयं यथा सर्वतः पाणिपादम् इति व्याख्यातं तथा, इति उक्तमेव स्फुटयति -
सर्वत इति ।
‘सर्वतोऽक्षि’ इत्यादेः अक्षरार्थमाह -
सर्वतोऽक्षीति ।
अक्षिश्रवणवत्वम् अवशिष्टज्ञानेन्द्रियवत्त्वस्य, पाणिपादमुखवत्वं च अविशिष्टकर्मेन्द्रयवत्त्वस्य मनोबुद्ध्यादिमत्त्वस्य च उपलक्षणम् । एकस्य सर्वत्र पाण्यादिमत्वं साधयति -
सर्वमिति
॥ १३ ॥