श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सच्छब्दप्रत्ययाविषयत्वात् असत्त्वाशङ्कायां ज्ञेयस्य सर्वप्राणिकरणोपाधिद्वारेण तदस्तित्वं प्रतिपादयन् तदाशङ्कानिवृत्त्यर्थमाह
सच्छब्दप्रत्ययाविषयत्वात् असत्त्वाशङ्कायां ज्ञेयस्य सर्वप्राणिकरणोपाधिद्वारेण तदस्तित्वं प्रतिपादयन् तदाशङ्कानिवृत्त्यर्थमाह

सर्वविशेषरहितस्य अवाङ्मनसगोचरस्य अदृष्टेः दृष्टेश्च विपरीतस्य, प्रप्ते बह्मणः शून्यत्वे, प्रत्यक्त्वेन इन्द्रियप्रवृत्त्यादिहेतुत्वेन कल्पितद्वैतस्यत्तास्फूर्तिप्रदत्वेन, ईश्वरत्वेन च सत्त्वं दर्शयन् आदौ देहादीनां प्रवृत्तिमतां स्थादिवत् अचेतनानां प्रेक्षापूर्वकप्रवृत्तिमत्वात् चेतनाधिष्ठितत्त्वम् अनुमिमानः, तत्प्रत्यक्चेतनं ब्रह्म, इत्याह -

सच्छब्देति ।

तदस्तित्वमिति तच्छब्दः ज्ञेयब्रह्मार्थः । तदाशङ्केति । तच्छब्देन असत्वमुच्यते ।

ननु - सर्वदेहेषु पाणिपादम् अस्येति, कथं पाणीनां च पादानां च देहस्थत्वेन आत्मधर्मत्वम् ? तत्राह -

सर्वेति ।

करणप्रवृत्तिः रथादिप्रवृत्तिवत् प्रेक्षापूर्वकप्रवृत्तित्वात् चेतनाधिष्ठातृपूर्विका, इत्यर्थः ।