परीक्तं विरोधम् अनुवदति -
यत्त्विति ।
श्रुत्यवष्टम्भेन निराचष्टे -
न विरुद्धमिति ।
सापि विरुद्धार्थत्वात् न मानम् , बोधकस्य अविरोधापेक्षत्वात् , इति शङ्कते -
श्रुतिरिति ।
तस्या विरुद्धार्थत्वेन अप्रामाण्ये दृष्टान्तमाह -
यथेति ।
प्राचीनवंशं करोति, इति पारलौकिकफलयज्ञानुष्ठानार्थं शालानिर्माणं प्रस्तुत्य, ‘को हि तद्वेद’ इत्याद्या परलोकसत्वे सन्दिहाना यथा वि्रुद्धार्था श्रुतिरप्रमाणम् , एवं विदिताविदितान्यत्वश्रुतिरपि इत्यर्थः ।
नेयं श्रुतिः विरुद्धत्वेन अमानतया हातव्या, ब्रह्मणि अद्वितीये प्रत्यक्ताप्रतिपादनेन मानत्वात् , इति उत्तरमाह -
न विदितेति ।
यत्तु विरुद्धार्थत्वे ‘को हि’ इति िउदाहृतम् ; तदसत् , अर्थवादस्य विधिशेषस्य स्वार्ते अतात्पर्यात् , इत्याह -
यदीति ।
यत्र जात्यादिमत्वं तत्र वाच्यत्वं यथा गवादौ, न ब्रह्मणि जतिमत्वम् , अतः तस्यावाच्यत्वात् निषेधेनैव बोध्यत्वम् , इत्याह-
उपपत्तेश्चेति ।
नीच्यत इति निषेधेनैव तस्य उपदेश इति शेषः ।
जात्यादिमतोऽर्थस्यैव वाच्यत्वम् तत्रैव सङ्गतिग्रहात् इति प्रपञ्चयति -
सर्वो हीति ।
अश्रुतस्य, जात्यादिद्वारेण अज्ञातसङ्गतेर्वा शब्दस्य न बोधकत्वम् , अदृष्टेः, इत्याह -
नान्यथेति ।
जात्यादेः सच्छब्दविषयत्वम् उदाहरति -
तद्यथेत्यादिना ।
ब्रह्मणस्तु ‘अगोत्रमवर्णम् ‘ इत्यादिश्रुतेः जात्यादिमत्वाम्भावात् न शब्दवाच्यता, इत्याह-
नत्विति ।
‘केवलो निर्गुणश्च’ (श्वे. उ. ६-११) इति श्रुतेः गुणद्वारा ब्रह्मणो न वाच्यता, इत्याह -
नापीति ।
निष्क्रियत्वे मानमाह -
निष्कलमिति ।
ब्रह्मणः अद्वितीयत्वस्य अशेषोपनिषत्सु सिद्धत्वात् द्विनिष्ठस्य सम्बन्धस्य तस्मिन्नसिद्धेः न तद् - द्वारापि तस्य वाच्यता, इत्याह-
न चेति ।
ब्रह्मणि अभिधावृत्या शब्दाप्रवृत्तौ हेत्वन्तराण्याह -
अद्वयत्वादिति ।
ब्रह्मणोऽवाच्यत्वे श्रुतिमपि संवादयति-
यत इति
॥ १२ ॥