इन्द्रियविशेषणीभूतसर्वशब्दात् ज्ञेयोपाधित्वन्यायाविशेषाच्च अत्र बुद्ध्यादेरपि ग्रहणम् , इत्याह -
अन्तःकरणे चेति ।
श्रोत्रादीनां ज्ञेयोपाधित्वस्य मनोबुद्धिद्वारात्वादपि तयोः इह ग्रहणम् , इत्याह -
अपि चेति ।
तयोरपि इह उपादाने फलितमाह -
इत्यत इति ।
अक्षरार्थमुक्त्वा वाक्यार्थमाह -
सर्वेति ।
उपाधिद्वारा कल्पितव्यापारवत्वे मानमाह-
ध्यायतीति ।
कल्पितमेव अस्य व्यापारवत्वम् , न वास्तवम् , इत्यत्र भगवतोऽपि संमतिम् आकाङ्क्षाद्वारा दर्शयति -
कस्मादित्यादिना ।
सर्वकरणराहित्ये फलमाह -
अत इति ।
साक्षादेव ज्ञेयस्य वेगवद्विहरणादिक्रियावत्ताया मान्त्रवर्णिकत्वात् , कुतोऽस्य करणव्यापारैः अव्यापृतत्वम् ? इत्याशङ्क्य, अनुवादपूर्वकं मन्त्रस्य प्रकृतानुगुणत्वमाह -
यस्त्विति ।
करणगुणानुगुण्यभजनमन्तरेण साक्षादेव जवनादिक्रियावत्त्वप्रदर्शनपरत्वे मन्त्रस्य मुख्यार्थत्वं स्यात् , इत्याशङ्क्य, तदसम्भावत् नैवम् इत्याह -
अन्ध इति ।
अर्थवादस्य श्रुते अर्थे तात्पर्याभावात् न प्रकृतप्रतिकूलता, इत्यर्थः ।
सर्वकरणराहित्यं तदूव्यापारराहित्यस्य उपलक्षणम् , इत्यङ्गीकृत्य, उक्तमेव हेतुं कृत्वा वस्तुतः सर्वसङ्गविवर्जितत्वम् आह -
यस्मादिति ।
वस्तुतः सर्वसङ्गाभावेऽपि सर्वाधिष्ठानत्वम् आह -
यद्यपीति ।
स्वसत्तामात्रेण अधिष्ठानतया सर्वं पुष्णाति, इत्येतत् उपपादयति -
सदिति ।
विमतम् , सति कल्पितम् , प्रत्येकं सदनुविद्धधीबोध्यत्वात् , प्रत्येकं चन्द्रभेदानुविद्धधीबोध्यचन्द्रभेदवत् , इत्यर्थः ।
सर्वं सदास्पदम् , इत्ययुक्तम् , मृगतृष्णिकादीनां तदभावात् , इत्याशङ्क्य, आह -
नहीति ।
तेषामपि कल्पितत्वे निरधिष्ठानत्वायोगात् निरूप्यमाणे तदधिष्ठानं सदेवेति, सर्वस्य सति कल्पितत्वम् अविरुद्धम् , इत्यर्थः ।
सर्वाधिष्ठानत्वेन, ज्ञेयस्य ब्रह्मणः अस्तित्वमुक्तम् उपसंहरति -
अत इति ।
इतश्च ज्ञेयं ब्रह्मास्ति, इत्याह -
स्यादिदं चेति ।
नहि तस्य उपलब्धृत्वं असत्वे सिध्यति, इत्यर्थः
॥ १४ ॥