श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अविभक्तं भूतेषु विभक्तमिव स्थितम्
भूतभर्तृ तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु ॥ १६ ॥
अविभक्तं प्रतिदेहं व्योमवत् तदेकम्भूतेषु सर्वप्राणिषु विभक्तमिव स्थितं देहेष्वे विभाव्यमानत्वात्भूतभर्तृ भूतानि बिभर्तीति तत् ज्ञेयं भूतभर्तृ स्थितिकालेप्रलयकाले गृसिष्णु ग्रसनशीलम्उत्पत्तिकाले प्रभविष्णु प्रभवनशीलं यथा रज्ज्वादिः सर्पादेः मिथ्याकल्पितस्य ॥ १६ ॥

तद्धि प्रतिदेहं नभोवत् एकम् , तद् - भेदेमानाभावात् , भिन्नत्वे च घटवत् अनात्मत्वापातात् अतः अद्वितीयम् , सर्वत्र प्रत्यग्भूतं ज्ञेयं नास्तीति अतिसाहसम् इत्याह -

अविभक्तं चेति ।

कथं तर्हि देहादेः भेदधीः? इत्याशङ्क्य कल्पनया इत्याह - भूतेष्विति । तत्र हेतुः-

देहेष्विति ।

कार्याणां स्थितिहेतुत्वाच्च ज्ञेयमस्ति, इत्याह -

भूतेति ।

निमित्तोपादानतया तेषां प्रलये प्रभवे च कारणत्वाच्च तदस्ति, इत्याह -

प्रलयेति ।

तहि कार्यकारणत्वस्य वस्तुत्वात् नाद्वैतम् , इत्याशङ्क्य, आह - यथेति

॥ १६ ॥