तर्हि किं तस्य रूपम् ? इति पृच्छति - किं तर्हीति । तत्रोत्तरम् -
ज्योतिषामिति ।
सूर्यादीनां च प्रकाशकत्वात् अस्ति ज्ञेयं ब्रह्म, इत्याह -
ज्योतिषामिति ।
तदेव उपपादयति -
आत्मेति ।
तत्र श्रुतिद्वयं प्रमाणयति -
येनेति ।
उक्तेऽर्थे वाक्यशेषमपि दर्शयति -
स्मृतेश्चेति ।
ज्ञेयस्य अतमस्त्वेपि तमःस्पृष्टत्वम् आशङ्क्य उक्तम् -
तमस इति ।
उत्तरार्धस्य तात्पर्यमाह -
ज्ञानादेरिति ।
उत्तम्भनम् - उद्दीपनम् - प्रकटीकरणम् , इति यावत् । ज्ञानम् अमानित्वादि, करणव्युत्पत्त्या, इति शेषः ।
ज्ञानगम्यम् - ज्ञेयमिति पुनरुक्तिं शङ्कित्वा उक्तम् -
ज्ञेयमिति ।
उक्तत्रयस्य बुद्धिस्थतया प्राकट्यं प्रकटयति -
तदेतदिति ।
तत्र अनुभवं अनुकूलयति -
तत्रैवेति
॥ १७ ॥