श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १८ ॥
इति एवं क्षेत्रं महाभूतादि धृत्यन्तं तथा ज्ञानम् अमानित्वादि तत्त्वज्ञानार्थदर्शनपर्यन्तं ज्ञेयं ज्ञेयं यत् तत्’ (भ. गी. १३ । १२) इत्यादि तमसः परमुच्यते’ (भ. गी. १३ । १७) इत्येवमन्तम् उक्तं समासतः सङ्क्षेपतःएतावान् सर्वः हि वेदार्थः गीतार्थश्च उपसंहृत्य उक्तःअस्मिन् सम्यग्दर्शने कः अधिक्रियते इति उच्यतेमद्भक्तः मयि ईश्वरे सर्वज्ञे परमगुरौ वासुदेवे समर्पितसर्वात्मभावः, यत् पश्यति शृणोति स्पृशति वासर्वमेव भगवान् वासुदेवःइत्येवंग्रहाविष्टबुद्धिः मद्भक्तः एतत् यथोक्तं सम्यग्दर्शनं विज्ञाय, मद्भावाय मम भावः मद्भावः परमात्मभावः तस्मै मद्भावाय उपपद्यते मोक्षं गच्छति ॥ १८ ॥

पूर्वाधं विभजते -

इत्येवमिति ।

वक्तव्यान्तरे सति, किमिति त्रितयमेव सङ्क्षिप्य उपसंहृतम् , तत्राह -

एतावानिति ।

उत्तरार्धम् आकाङ्क्षाद्वारा अवतारयति -

अस्मिन्निति ।

ईश्वरे समर्पित सर्वात्मभावमेव अभिनयति -

यत्पश्यतीति ।

विज्ञाय - लब्ध्वा, इत्यर्थः

॥ १८ ॥