मतान्तरमाह -
नेत्यादिना ।
तयोर्मूलकारणत्वाभावे कस्य तदेष्टव्यम् ? इत्याशङ्क्या, आह -
तेन हीति ।
प्रकृत्योरेव मूलकारणत्वे श्रुतिस्मृतिसिद्धम् ईश्वरस्य तथात्वं न स्यात् , इत्याह -
यदीति ।
प्रकृतिद्बयस्य कार्यत्वपक्षं प्रत्याह -
तदसदिति ।
किं च प्रकृतिद्वयमनपेक्ष्य ईश्वरस्य संसारहेतुत्वे स्वातन्त्र्यात् मुक्तानामपि ततः संसाराप्तेः अनिषेधात् मोक्षशास्त्राप्रामाण्यात् न तस्यैव संसारहेतुता, इत्याह -
संसारस्येति ।
निर्निमित्तत्वं प्रकृतिद्वयापेक्षामृते परस्यैव निमित्तत्वम् , इति यावत् ।
किं च कार्यत्वे प्रकृत्योः तदुदयात्पूर्वं बन्धाभावे तद्विश्लेषात्मनो मोक्षस्याभावात् कदाचित् उभयाभावे पुनस्तदप्रसङ्गात् न प्रकृतिद्वयस्य कार्यता, इत्याह -
बन्धेति ।
प्रकृत्योः मूलकारणत्वे नानुपपत्तिः, इत्याह -
नित्यत्व इति ।
स्वपक्षे दोषाभावं प्रश्नपूर्वकं प्रपञ्चयति -
कथमित्यादिना ।
सङ्क्षवः - सत्ताप्रापको हेतुः । प्रकृतेरनादित्वे विकाराणां गुणानां च तस्कार्यत्वात् आत्मनो निर्विकारत्वं निर्गुणत्वं च सिध्यति, इति भावः
॥ १९ ॥