‘स च यो यत्स्वभावश्च’ इति उद्दिष्टं व्याचष्टे -
प्रकृतिमिति ।
ईश्वरस्य अपरा प्रकृतिः अत्र प्रकृतिशब्देन उक्ता, परा तु प्रकृतिः जीवाख्या पुरुषशब्देन विवक्षिता, इति व्याकरोति -
ईश्वरस्येति ।
तयोरनादित्वं व्युत्पादयति -
नेत्यादिना ।
तत्र युक्तिमाह -
नित्यत्वादीश्वरस्येति ।
ईश्वरस्य उक्तप्रकृतिद्वयवत्वं कथम् ? इत्याशङ्क्य, आह -
प्रकृतीति ।
तस्य जगज्जन्मादौ स्वातन्त्र्यमेव ईश्वरत्वम् , न प्रकृतिद्वयवत्वम् , इत्याशङ्क्य, आह -
याभ्यामिति ।
प्रकृत्योः अनादित्वं कुत्रोपयुक्तम् ? इत्याशङ्क्य, आह -
ते इति ।