श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तत्र सप्तमे ईश्वरस्य द्वे प्रकृती उपन्यस्ते, परापरे क्षेत्रक्षेत्रज्ञलक्षणे ; एतद्योनीनि भूतानि’ (भ. गी. ७ । ६) इति उक्तम्क्षेत्रक्षेत्रज्ञप्रकृतिद्वययोनित्वं कथं भूतानामिति अयमर्थः अधुना उच्यते
तत्र सप्तमे ईश्वरस्य द्वे प्रकृती उपन्यस्ते, परापरे क्षेत्रक्षेत्रज्ञलक्षणे ; एतद्योनीनि भूतानि’ (भ. गी. ७ । ६) इति उक्तम्क्षेत्रक्षेत्रज्ञप्रकृतिद्वययोनित्वं कथं भूतानामिति अयमर्थः अधुना उच्यते

‘प्रकृतिम् ‘इत्यादि वक्ष्यमाणम् अनन्तरपूर्वग्रन्थसम्बन्धि, इत्याशङ्क्य व्यवहितेन सम्बन्धर्थं व्यवहितमनुवदति -

तत्रेति ।

तयोश्च प्रकृत्योः उक्तं भूतकारणत्वम् इत्याह -

एतदिति ।

भूतानामिव प्रकृत्योरपि प्रकृत्यन्तरापेक्षया अनवस्थानात् , न भूतयोनिता, इति शङ्क्ते -

क्षेत्रेति ।

तत्र अकृताभ्यागमादिवारणाय बन्धस्य निदानज्ञानार्थम् आत्मनो विक्रियावत्वादिदोषनिरासार्थं च प्रकृतिपुरुषयोः अनादित्वं क्षेत्रत्वेनोक्तानां प्रकृतिं प्रति  विकारभावं च दर्शयति -

अयमर्थ इति ।