कार्यकारणानां व्यापारवतां समीपे स्थितः सन्निधिमात्रेण तेषां साक्षी इत्येवमर्थत्वेन उपद्रष्टा इति पदं व्याचष्टे -
समीपस्थ इति ।
लोकिकस्येव द्रष्टुः अस्यापि स्वव्यापारविशिष्टतया निष्क्रियत्वविरोधमाशङ्क्य, आह -
स्वयमिति ।
स्वाव्यापारादृते सन्निधिरेव द्रष्ट्रत्वम् ।
दृष्टान्तेन स्पष्टयति -
यथेति ।
उपद्रष्टा इत्यस्य अर्थान्तरमाह -
अथवेति ।
बहूनां द्रष्टृत्वेऽपि कस्य उपद्रष्ट्वत्वम् ? तत्राह -
तेषामिति ।
उपोपसर्गस्य सामीप्यार्थत्वेन प्रत्यगर्थत्वात् , तत्रैव सामीप्यावसानात् , प्रत्यगात्मा च द्रष्टा च इति, उपद्रष्टा सर्वसाक्षी, प्रत्यगात्मा इत्यर्थः ।
उक्तमेव व्यनक्ति -
यत इति ।
यथा यजमानस्य ऋत्विजां च यज्ञकर्मणि गुणं दोषं वा सर्वयज्ञाभिज्ञः सन् उपद्रष्टा विषयीकरोति, तथा अयमात्मा चिन्मात्रस्वभावः सर्वं गोचरयतीति, उपद्रष्टेति पक्षान्तरमाह –
यज्ञेति ।
‘अनुमन्ता च’ इत्येतत् व्याकरोति -
अनुमन्तेति ।
ये स्वयं कुर्वन्तो व्यापारयन्तो भवन्ति. तेषु कुर्वत्सु सत्सु, याः तेपां क्रियाः, तासु पार्श्वस्थस्य परितोषः अनुमननम् । तच्च अनुमोदनं, तस्य सन्निधिमात्रेण कर्ता यः, सोऽनुमन्ता इत्यर्थः ।
व्याख्यान्तरमाह -
अथवेति ।
तदेव स्फुटयति -
कार्येति ।
अर्थान्तरमाह -
अथवेत्यादि ।
भर्ता इति पदमादाय, किं भरणं नाम? इति पृच्छति -
भर्तेति ।
तद्रूपं निरूपयन् आत्मनो भर्तृत्वं साधयति -
देहेति ।
भोक्ता इत्युक्ते क्रियावत्वे प्राप्ते, भोगः चिदवसानता इति न्यायेन विभजते -
अग्नीति ।
विशेषणान्तरमादाय व्याचष्टे -
महेश्वर इति ।
परमात्मत्वम् उपपादयति -
देहादीनामिति ।
अविद्यया कल्पितानाम् , इति सम्बन्धः ।
परमत्वम् - प्रकृष्टत्वम् , सः पूर्वेक्तविशेषणवान् , इति यावत् परमात्मशब्दस्य प्रकृतात्मविषयत्वे श्रुतिमनुकूलयति -
अन्त इति ।
तस्य ताटस्थ्यं प्रश्नद्वारा प्रत्याचष्टे-
क्वेति ।
कस्मात् परत्वम् ? तदाह -
अव्यक्तादिति ।
तत्रैव वाक्यशेषानुकूल्यम् आह -
उत्तम इति ।
सोऽस्मिन् देहे परः पुरुषः, इति सम्बन्धः ।
शोधितार्थयोः ऐक्यज्ञानं प्रागुक्तं फलोक्त्या स्तौति -
क्षेत्रज्ञं चेति
॥ २२ ॥