श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एवं वेत्ति पुरुषं प्रकृतिं गुणैः सह
सर्वथा वर्तमानोऽपि भूयोऽभिजायते ॥ २३ ॥
यः एवं यथोक्तप्रकारेण वेत्ति पुरुषं साक्षात् अहमिति प्रकृतिं यथोक्ताम् अविद्यालक्षणां गुणैः स्वविकारैः सह निवर्तिताम् अभावम् आपादितां विद्यया, सर्वथा सर्वप्रकारेण वर्तमानोऽपि सः भूयः पुनः पतिते अस्मिन् विद्वच्छरीरे देहान्तराय अभिजायते उत्पद्यते, देहान्तरं गृह्णाति इत्यर्थःअपिशब्दात् किमु वक्तव्यं स्ववृत्तस्थो जायते इति अभिप्रायः

यथोक्तप्रकारेण - जीवेश्वरादि सर्वकल्पनाधिष्ठानत्वेन, इत्यर्थः, साक्षादपरोक्षत्वेन, इति यावत् । यथोक्ताम् - अनादिं अनिर्वाच्यां, सर्वानर्थोपाधिभूताम् , इत्यर्थः । विद्ययाप्रागुक्तैकत्वगोचरया प्रकृतिम् अविद्यारूपां सकार्याम् अभावमापादितां यो वेत्ति, इति सम्बन्धः सर्वप्रकारेण - विहितेन निषिद्धेन च इत्यर्थः । पुनर्नकारः अन्वयार्थः । निपातसूचितं न्यायमाह -

अपीति ।