‘न स भूयोऽभिजायते’ इत्युक्तमाक्षिपति-
नन्विति ।
ज्ञानोत्पत्त्यनन्तरं जन्माभावस्योक्तत्वात् पुनर्देहारम्भमुपेत्य नाक्षेपः स्यात् , इत्याशङ्क्य, आह -
यद्यपीति ।
तथापि स्युस्त्रीणि जन्मामि इति सम्बन्धः ।
वर्तमानदेहे ज्ञानात्पूर्वोत्तरकालानां कर्मणआं फलमदत्वा नाशायोगात् जन्मद्वयमावश्यकम् । अतीतानेकदेहेष्वपि कृतकर्मणां ‘नाभुक्तं क्षीयते कर्म’ इत्येव स्मृतेः अदत्वा फलमनाशात् अस्ति तृतीयमपिजन्म, इत्याह -
प्रागिति ।
फलदानं विनापि कर्मनाशे दोषमाह-
कृतेति ।
न युक्त इति कृत्वा फलमदत्वा कर्मनाशो न, इति शेषः ।
विमतानि कर्माणि, फलमदत्वा न क्षीयन्ते, वैदिककर्मत्वात् , आरब्धकर्मवत् , इति मत्वा आह-
यथेति ।
नाशो न ज्ञानात् इति शेषः ।
ननु अनारब्धकर्मणां ज्ञानात् नाशो युक्तः अप्रवृत्तफलत्वात् । आरब्धकर्मणां तु प्रवृत्तफलत्वेन बलवत्वात् न ज्ञानात् तन्निवृत्तिः इति । नेत्याह -
न चेति ।
अज्ञानोत्थत्वेन ज्ञानविरोधित्वाविशेषात् प्रवृत्ताप्रवृत्तफलत्वम् अनुपयुक्तम् इति भावः ।
कर्मणां फलमदत्वा नाशाभावे फलितमाह -
तस्मादिति ।
ननु - कर्मणां बुहुत्वात् तत्फलेषु जन्मसु कुतः त्रित्वम् ? आरम्भककर्मणां त्रिप्रकारकत्वात् इति चेत् , न, अनारब्धत्वेन एक प्ररारत्वसम्भवात् , तत्राह -
संहतानीति ।
नास्ति ज्ञानस्य ऐकान्तिकफलत्वम् इति शेषः ।
उक्तकर्मणां जन्मानारम्भकत्वे प्रागुक्तं दोषम् अनुभाष्य, तस्य अतिप्रसञ्जकत्वमाह -
अन्यथेति ।
सर्वत्रेति - आरब्धकर्मस्वपि, इति यावत् । फलजनकत्वानिश्चयः अनाश्वासः ।
कर्मणां जन्मानारम्भकत्वे कर्मकाण्डानर्थक्यं दोषान्तरमाह -
शास्रेति ।
अनारब्धकर्मणां सत्यपि ज्ञाने जन्मान्तरारम्भकत्वध्रौव्ये फलितमाह-
इत्यत इति ।
श्रुत्यवष्टभेन परिहरति -
नेत्यादिना ।
ज्ञानात् अनारब्धकर्मदाहे भगवतोऽपि संमतिमाह -
इहापीति ।
ज्ञानाधीनसर्वकर्मदाहे ‘सर्वधर्मान् परित्यज्य’ (भ. गी. १८-६६) इति वाक्यशेषोऽपि प्रमाणीभवति, इत्याह -
वक्ष्यति चेति ।
ज्ञानात् अनारब्धाशेषकर्मक्षये युक्तिरपि वक्तुं शक्या इत्याह -
उपपत्तेश्चेति ।
तामेव विवृणोति -
अविद्येति ।
अज्ञस्य अविद्यास्मितारागद्वेषाभिनिवेशाख्यक्लेशात्मकानि सर्वानर्थबीजानि, तानि निमित्तीकृत्य यानि धर्माधर्मकर्माणि तानि जन्मान्तरारम्भकाणि । यानि तु विदुषो विद्यादग्धक्लेशबीजस्य प्रतिभासमात्रशरीराणि कर्माणि न तानि शरीरारम्भकाणि दग्धपटवत् अर्थक्रियासामर्थ्याभावात् इत्यर्थः ।
प्रतीतमात्रदेहानां कर्माभासानां न फलारम्भकता, इत्यस्मिन्नर्थे भगवतोऽपि संमतिमाह -
इहापीति ।
तत्त्वज्ञानादूर्ध्वं प्रातीतिकक्लेशानां कर्मद्वारा देहानारम्भकत्वे वाक्यान्तरमपि प्रमाणयति -
बीजानीति ।
ज्ञानानन्तरभाविकर्मणां ज्ञानेन दाहमङ्गीकरोति -
अस्त्विति ।
विरोधिग्रस्तानामेव उत्पत्तिः इति हेतुमाह -
ज्ञानेति ।
अस्मिन् जन्मनि जन्मान्तरे वा ज्ञानात् पूर्वभाविकर्मणां न ततो दाहः, विगेधिन विना प्रवृत्तेः, इत्याह -
नत्विति ।
श्रुतिस्मृतिविरोधात् नैवमिति परिहरति -
नेत्यादिना ।
सर्वशब्दश्रुतेः सङ्कोचं शङ्कते -
ज्ञानेति ।
प्रकारणादिसङ्कोचकाभावान् नैवमित्याह -
नेति ।
आक्षेपदशायाम् उक्तमनुमानम् अनुवदति -
यत्त्विति ।
आभासात्वात् इदमसाधकम् इति दूषयति -
तदसदिति ।
व्याप्त्यादिसत्वे कथम् आभाप्तत्वम् ? इति पृच्छति -
कथमिति ।
प्रवृत्तफलत्वोपाधिना हेतोर्व्याप्तिभङ्गात् आभासत्वधीः इत्याह -
तेषामिति ।
तदेव प्रपञ्चयति -
यथेत्यादिना ।
धनुपः सकाशात् इषुर्मुक्तो बलवत्प्रतिबन्धकाभावे मध्ये नं पतति । तथा प्रबलप्रतिबन्धकं विना प्रवृत्तफलानां कर्मणां भोगादृते न क्षयः । न च तत्त्वज्ञानं तादृक् प्रतिबन्धकम् , उत्पत्तावेव पूर्वप्रवृत्तेन कर्मणा प्रतिबद्धशक्तित्वात् इत्यर्थः ।
यत्र ज्ञानेन अदाह्यत्वम् , तत्र प्रवृत्तफलत्वम् , इत्यन्दयेऽपि, यत्र अप्रवृत्तफलत्वम् , तत्र ज्ञानदाह्यत्वम् , इति न व्यतिरेकसिद्धिः, इत्याशङ्क्य आह -
स एवेति ।
प्रवृत्तौ निमित्तभूतोऽनारब्धो वेगोऽनेनेति विग्रहः । स्वाश्रयस्थानि - साभासान्तःकरणानष्ठानि, इति यावत् । विमतानि, तत्त्वधीनिमित्तनिवृत्तीनि, तत्कृतकारणनिवृत्तित्वात् रज्जुसर्पदिवत् , इति व्यतिरेकसिद्धिः, इति भावः ।
विदुषो वर्तमानदेहपाते देहहेत्वभावात् तत्त्वधीः ऐकान्तिकफला, इति उपसंहरति -
पतित इति
॥ २३ ॥