श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एवं वेत्ति पुरुषं प्रकृतिं गुणैः सह
सर्वथा वर्तमानोऽपि भूयोऽभिजायते ॥ २३ ॥
यः एवं यथोक्तप्रकारेण वेत्ति पुरुषं साक्षात् अहमिति प्रकृतिं च यथोक्ताम् अविद्यालक्षणां गुणैः स्वविकारैः सह निवर्तिताम् अभावम् आपादितां विद्यया, सर्वथा सर्वप्रकारेण वर्तमानोऽपि सः भूयः पुनः पतिते अस्मिन् विद्वच्छरीरे देहान्तराय न अभिजायते न उत्पद्यते, देहान्तरं न गृह्णाति इत्यर्थः । अपिशब्दात् किमु वक्तव्यं स्ववृत्तस्थो न जायते इति अभिप्रायः ॥

यथोक्तप्रकारेण - जीवेश्वरादि सर्वकल्पनाधिष्ठानत्वेन, इत्यर्थः, साक्षादपरोक्षत्वेन, इति यावत् । यथोक्ताम् - अनादिं अनिर्वाच्यां, सर्वानर्थोपाधिभूताम् , इत्यर्थः । विद्ययाप्रागुक्तैकत्वगोचरया प्रकृतिम् अविद्यारूपां सकार्याम् अभावमापादितां यो वेत्ति, इति सम्बन्धः सर्वप्रकारेण - विहितेन निषिद्धेन च इत्यर्थः । पुनर्नकारः अन्वयार्थः । निपातसूचितं न्यायमाह -

अपीति ।