श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एवं वेत्ति पुरुषं प्रकृतिं गुणैः सह
सर्वथा वर्तमानोऽपि भूयोऽभिजायते ॥ २३ ॥
ननु, यद्यपि ज्ञानोत्पत्त्यनन्तरं पुनर्जन्माभाव उक्तः, तथापि प्राक् ज्ञानोत्पत्तेः कृतानां कर्मणाम् उत्तरकालभाविनां च, यानि च अतिक्रान्तानेकजन्मकृतानि तेषां च, फलमदत्त्वा नाशो न युक्त इति, स्युः त्रीणि जन्मानि, कृतविप्रणाशो हि न युक्त इति, यथा फले प्रवृत्तानाम् आरब्धजन्मनां कर्मणाम् । न च कर्मणां विशेषः अवगम्यते । तस्मात् त्रिप्रकाराण्यपि कर्माणि त्रीणि जन्मानि आरभेरन् ; संहतानि वा सर्वाणि एकं जन्म आरभेरन् । अन्यथा कृतविनाशे सति सर्वत्र अनाश्वासप्रसङ्गः, शास्त्रानर्थक्यं च स्यात् । इत्यतः इदमयुक्तमुक्तम् ‘न स भूयोऽभिजायते’ इति । न ; ‘क्षीयन्ते चास्य कर्माणि’ (मु. उ. २ । २ । ९) ‘ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) ‘तस्य तावदेव चिरम्’ (छा. उ. ६ । १४ । २) ‘इषीकातूलवत् सर्वाणि कर्माणि प्रदूयन्ते’ (छा. उ. ५ । २४ । ३) इत्यादिश्रुतिशतेभ्यः उक्तो विदुषः सर्वकर्मदाहः । इहापि च उक्तः ‘यथैधांसि’ (भ. गी. ४ । ३७) इत्यादिना सर्वकर्मदाहः, वक्ष्यति च । उपपत्तेश्च — अविद्याकामक्लेशबीजनिमित्तानि हि कर्माणि जन्मान्तराङ्कुरम् आरभन्ते ; इहापि च ‘साहङ्काराभिसन्धीनि कर्माणि फलारम्भकाणि, न इतराणि’ इति तत्र तत्र भगवता उक्तम् । ‘बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः । ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः’ (मो. २११ । १७) इति च । अस्तु तावत् ज्ञानोत्पत्त्युत्तरकालकृतानां कर्मणां ज्ञानेन दाहः ज्ञानसहभावित्वात् । न तु इह जन्मनि ज्ञानोत्पत्तेः प्राक् कृतानां कर्मणां अतीतजन्मकृतानां च दाहः युक्तः । न ; ‘सर्वकर्माणि’ (भ. गी. ४ । ३७) इति विशेषणात् । ज्ञानोत्तरकालभाविनामेव सर्वकर्मणाम् इति चेत् , न ; सङ्कोचे कारणानुपपत्तेः । यत्तु उक्तम् ‘यथा वर्तमानजन्मारम्भकाणि कर्माणि न क्षीयन्ते फलदानाय प्रवृत्तान्येव सत्यपि ज्ञाने, तथा अनारब्धफलानामपि कर्मणां क्षयो न युक्तः’ इति, तत् असत् । कथम् ? तेषां मुक्तेषुवत् प्रवृत्तफलत्वात् । यथा पूर्वं लक्ष्यवेधाय मुक्तः इषुः धनुषः लक्ष्यवेधोत्तरकालमपि आरब्धवेगक्षयात् पतनेनैव निवर्तते, एवं शरीरारम्भकं कर्म शरीरस्थितिप्रयोजने निवृत्तेऽपि, आ संस्कारवेगक्षयात् पूर्ववत् वर्तते एव । यथा स एव इषुः प्रवृत्तिनिमित्तानारब्धवेगस्तु अमुक्तो धनुषि प्रयुक्तोऽपि उपसंह्रियते, तथा अनारब्धफलानि कर्माणि स्वाश्रयस्थान्येव ज्ञानेन निर्बीजीक्रियन्ते इति, पतिते अस्मिन् विद्वच्छरीरे ‘न स भूयोऽभिजायते’ इति युक्तमेव उक्तमिति सिद्धम् ॥ २३ ॥

‘न स भूयोऽभिजायते’ इत्युक्तमाक्षिपति-

नन्विति ।

ज्ञानोत्पत्त्यनन्तरं जन्माभावस्योक्तत्वात् पुनर्देहारम्भमुपेत्य नाक्षेपः स्यात् , इत्याशङ्क्य, आह -

यद्यपीति ।

तथापि स्युस्त्रीणि जन्मामि इति सम्बन्धः ।

वर्तमानदेहे ज्ञानात्पूर्वोत्तरकालानां कर्मणआं फलमदत्वा नाशायोगात् जन्मद्वयमावश्यकम् । अतीतानेकदेहेष्वपि कृतकर्मणां ‘नाभुक्तं क्षीयते कर्म’ इत्येव स्मृतेः अदत्वा फलमनाशात् अस्ति तृतीयमपिजन्म, इत्याह -

प्रागिति ।

फलदानं विनापि कर्मनाशे दोषमाह-

कृतेति ।

न युक्त इति कृत्वा फलमदत्वा कर्मनाशो न, इति शेषः ।

विमतानि कर्माणि, फलमदत्वा न क्षीयन्ते, वैदिककर्मत्वात् , आरब्धकर्मवत्  , इति मत्वा आह-

यथेति ।

नाशो न ज्ञानात् इति  शेषः ।

ननु अनारब्धकर्मणां ज्ञानात् नाशो युक्तः अप्रवृत्तफलत्वात् । आरब्धकर्मणां तु प्रवृत्तफलत्वेन बलवत्वात् न ज्ञानात् तन्निवृत्तिः इति । नेत्याह -

न चेति ।

अज्ञानोत्थत्वेन ज्ञानविरोधित्वाविशेषात् प्रवृत्ताप्रवृत्तफलत्वम्  अनुपयुक्तम् इति भावः ।

कर्मणां फलमदत्वा नाशाभावे फलितमाह -

तस्मादिति ।

ननु - कर्मणां बुहुत्वात् तत्फलेषु जन्मसु कुतः त्रित्वम् ? आरम्भककर्मणां त्रिप्रकारकत्वात् इति चेत् , न, अनारब्धत्वेन एक प्ररारत्वसम्भवात् , तत्राह -

संहतानीति ।

नास्ति ज्ञानस्य ऐकान्तिकफलत्वम् इति शेषः ।

उक्तकर्मणां जन्मानारम्भकत्वे प्रागुक्तं दोषम् अनुभाष्य, तस्य अतिप्रसञ्जकत्वमाह -

अन्यथेति ।

सर्वत्रेति - आरब्धकर्मस्वपि, इति यावत् । फलजनकत्वानिश्चयः अनाश्वासः ।

कर्मणां जन्मानारम्भकत्वे कर्मकाण्डानर्थक्यं दोषान्तरमाह -

शास्रेति ।

अनारब्धकर्मणां सत्यपि ज्ञाने जन्मान्तरारम्भकत्वध्रौव्ये फलितमाह-

इत्यत इति ।

श्रुत्यवष्टभेन परिहरति -

नेत्यादिना ।

ज्ञानात् अनारब्धकर्मदाहे भगवतोऽपि संमतिमाह -

इहापीति ।

ज्ञानाधीनसर्वकर्मदाहे ‘सर्वधर्मान् परित्यज्य’ (भ. गी. १८-६६) इति वाक्यशेषोऽपि प्रमाणीभवति, इत्याह -

वक्ष्यति चेति ।

ज्ञानात् अनारब्धाशेषकर्मक्षये युक्तिरपि वक्तुं शक्या इत्याह -

उपपत्तेश्चेति ।

तामेव विवृणोति -

अविद्येति ।

अज्ञस्य अविद्यास्मितारागद्वेषाभिनिवेशाख्यक्लेशात्मकानि सर्वानर्थबीजानि, तानि निमित्तीकृत्य यानि धर्माधर्मकर्माणि तानि जन्मान्तरारम्भकाणि । यानि तु विदुषो विद्यादग्धक्लेशबीजस्य प्रतिभासमात्रशरीराणि कर्माणि न तानि शरीरारम्भकाणि दग्धपटवत् अर्थक्रियासामर्थ्याभावात् इत्यर्थः ।

प्रतीतमात्रदेहानां कर्माभासानां न फलारम्भकता, इत्यस्मिन्नर्थे भगवतोऽपि संमतिमाह -

इहापीति ।

तत्त्वज्ञानादूर्ध्वं प्रातीतिकक्लेशानां कर्मद्वारा देहानारम्भकत्वे वाक्यान्तरमपि प्रमाणयति -

बीजानीति ।

ज्ञानानन्तरभाविकर्मणां ज्ञानेन दाहमङ्गीकरोति -

अस्त्विति ।

विरोधिग्रस्तानामेव उत्पत्तिः इति हेतुमाह -

ज्ञानेति ।

अस्मिन् जन्मनि जन्मान्तरे वा ज्ञानात् पूर्वभाविकर्मणां न ततो दाहः, विगेधिन विना प्रवृत्तेः, इत्याह -

नत्विति ।

श्रुतिस्मृतिविरोधात् नैवमिति परिहरति -

नेत्यादिना ।

सर्वशब्दश्रुतेः सङ्कोचं शङ्कते -

ज्ञानेति ।

प्रकारणादिसङ्कोचकाभावान् नैवमित्याह -

नेति ।

आक्षेपदशायाम् उक्तमनुमानम् अनुवदति -

यत्त्विति ।

आभासात्वात् इदमसाधकम् इति दूषयति -

तदसदिति ।

व्याप्त्यादिसत्वे कथम् आभाप्तत्वम् ? इति पृच्छति -

कथमिति ।

प्रवृत्तफलत्वोपाधिना हेतोर्व्याप्तिभङ्गात् आभासत्वधीः इत्याह -

तेषामिति ।

तदेव प्रपञ्चयति -

यथेत्यादिना ।

धनुपः सकाशात् इषुर्मुक्तो बलवत्प्रतिबन्धकाभावे मध्ये नं पतति । तथा प्रबलप्रतिबन्धकं विना प्रवृत्तफलानां कर्मणां भोगादृते न क्षयः । न च तत्त्वज्ञानं तादृक् प्रतिबन्धकम् , उत्पत्तावेव पूर्वप्रवृत्तेन कर्मणा प्रतिबद्धशक्तित्वात् इत्यर्थः ।

यत्र ज्ञानेन अदाह्यत्वम् , तत्र प्रवृत्तफलत्वम् , इत्यन्दयेऽपि, यत्र अप्रवृत्तफलत्वम् , तत्र ज्ञानदाह्यत्वम् , इति न व्यतिरेकसिद्धिः, इत्याशङ्क्य आह -

स एवेति ।

प्रवृत्तौ निमित्तभूतोऽनारब्धो वेगोऽनेनेति विग्रहः । स्वाश्रयस्थानि - साभासान्तःकरणानष्ठानि, इति यावत् । विमतानि, तत्त्वधीनिमित्तनिवृत्तीनि, तत्कृतकारणनिवृत्तित्वात् रज्जुसर्पदिवत् , इति व्यतिरेकसिद्धिः, इति भावः ।

विदुषो वर्तमानदेहपाते देहहेत्वभावात् तत्त्वधीः ऐकान्तिकफला, इति उपसंहरति -

पतित इति

॥ २३ ॥