श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ २४ ॥
अत्र आत्मदर्शने उपायविकल्पाः इमे ध्यानादयः उच्यन्ते —

‘ज्ञेयं यत्तत्‘ (भ. गी. १३-१२) इत्यादिना तत्पदार्थः त्वम्पदार्थश्च अनन्तरमेव शोधितौ, तयोरैक्यं च ‘क्षेत्रज्ञं चापि मां विद्धि’ (भ. गी. १३-२) इत्युक्तम् । इदानीं तद् - दृष्टिहेतून् यथाधिकारं कथयति -

अत्रेति ।