ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ २४ ॥
ध्यानेन, ध्यानं नाम शब्दादिभ्यो विषयेभ्यः श्रोत्रादीनि करणानि मनसि उपसंहृत्य, मनश्च प्रत्यक्चेतयितरि, एकाग्रतया यत् चिन्तनं तत् ध्यानम् ; तथा, ध्यायतीव बकः, ध्यायतीव पृथिवी, ध्यायन्तीव पर्वताः इति उपमोपादानात् । तैलधारावत् सन्ततः अविच्छिन्नप्रत्ययो ध्यानम् ; तेन ध्यानेन आत्मनि बुद्धौ पश्यन्ति आत्मानं प्रत्यक्चेतनम् आत्मना स्वेनैव प्रत्यक्चेतनेन ध्यानसंस्कृतेन अन्तःकरणेन केचित् योगिनः । अन्ये साङ्ख्येन योगेन, साङ्ख्यं नाम ‘इमे सत्त्वरजस्तमांसि गुणाः मया दृश्या अहं तेभ्योऽन्यः तद्व्यापारसाक्षिभूतः नित्यः गुणविलक्षणः आत्मा’ इति चिन्तनम् एषः साङ्ख्यो योगः, तेन ‘पश्यन्ति आत्मानमात्मना’ इति वर्तते । कर्मयोगेन, कर्मैव योगः, ईश्वरार्पणबुद्ध्या अनुष्ठीयमानं घटनरूपं योगार्थत्वात् योगः उच्यते गुणतः ; तेन सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेण च अपरे ॥ २४ ॥