अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ २५ ॥
अन्ये तु एषु विकल्पेषु अन्यतमेनापि एवं यथोक्तम् आत्मानम् अजानन्तः अन्येभ्यः आचार्येभ्यः श्रुत्वा ‘इदमेव चिन्तयत’ इति उक्ताः उपासते श्रद्दधानाः सन्तः चिन्तयन्ति । तेऽपि च अतितरन्त्येव अतिक्रामन्त्येव मृत्युम् , मृत्युयुक्तं संसारम् इत्येतत् । श्रुतिपरायणाः श्रुतिः श्रवणं परम् अयनं गमनं मोक्षमार्गप्रवृत्तौ परं साधनं येषां ते श्रुतिपरायणाः ; केवलपरोपदेशप्रमाणाः स्वयं विवेकरहिताः इत्यभिप्रायः । किमु वक्तव्यम् प्रमाणं प्रति स्वतन्त्राः विवेकिनः मृत्युम् अतितरन्ति इति अभिप्रायः ॥ २५ ॥