श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञेश्वरैकत्वविषयं ज्ञानं मोक्षसाधनम् यज्ज्ञात्वामृतमश्नुते’ (भ. गी. १३ । १२) इत्युक्तम् , तत् कस्मात् हेतोरिति, तद्धेतुप्रदर्शनार्थं श्लोकः आरभ्यते
क्षेत्रज्ञेश्वरैकत्वविषयं ज्ञानं मोक्षसाधनम् यज्ज्ञात्वामृतमश्नुते’ (भ. गी. १३ । १२) इत्युक्तम् , तत् कस्मात् हेतोरिति, तद्धेतुप्रदर्शनार्थं श्लोकः आरभ्यते

ऐक्यधीः मुक्तिगेतुः, इति प्रागुक्तमनूद्य प्रश्नपूर्वक जिज्ञासितहेतुपरत्वेन श्लोकमवतारयति -

क्षेत्रेति ।

सर्वस्य प्राणिजातस्य क्षेत्रक्षेत्रज्ञसम्बन्धाधीना यस्मादुत्पत्तिः, तस्मात्  क्षेत्रज्ञात्मकपरमात्मातिरेकेण प्राणिनिकायस्याभावात् , ऐक्यज्ञानादेव मुक्तिः, इत्याह -

कस्मादिति ।