श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम्
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ २६ ॥
कः पुनः अयं क्षेत्रक्षेत्रज्ञयोः संयोगः अभिप्रेतः ? तावत् रज्ज्वेव घटस्य अवयवसंश्लेषद्वारकः सम्बन्धविशेषः संयोगः क्षेत्रेण क्षेत्रज्ञस्य सम्भवति, आकाशवत् निरवयवत्वात्नापि समवायलक्षणः तन्तुपटयोरिव क्षेत्रक्षेत्रज्ञयोः इतरेतरकार्यकारणभावानभ्युपगमात् इति, उच्यतेक्षेत्रक्षेत्रज्ञयोः विषयविषयिणोः भिन्नस्वभावयोः इतरेतरतद्धर्माध्यासलक्षणः संयोगः क्षेत्रक्षेत्रज्ञस्वरूपविवेकाभावनिबन्धनः, रज्जुशुक्तिकादीनां तद्विवेकज्ञानाभावात् अध्यारोपितसर्परजतादिसंयोगवत्सः अयं अध्यासस्वरूपः क्षेत्रक्षेत्रज्ञसंयोगः मिथ्याज्ञानलक्षणःयथाशास्त्रं क्षेत्रक्षेत्रज्ञलक्षणभेदपरिज्ञानपूर्वकं प्राक् दर्शितरूपात् क्षेत्रात् मुञ्जादिव इषीकां यथोक्तलक्षणं क्षेत्रज्ञं प्रविभज्य सत्तन्नासदुच्यते’ (भ. गी. १३ । १२) इत्यनेन निरस्तसर्वोपाधिविशेषं ज्ञेयं ब्रह्मस्वरूपेण यः पश्यति, क्षेत्रं मायानिर्मितहस्तिस्वप्नदृष्टवस्तुगन्धर्वनगरादिवत्असदेव सदिव अवभासतेइति एवं निश्चितविज्ञानः यः, तस्य यथोक्तसम्यग्दर्शनविरोधात् अपगच्छति मिथ्याज्ञानम्तस्य जन्महेतोः अपगमात् एवं वेत्ति पुरुषं प्रकृतिं गुणैः सह’ (भ. गी. १३ । २३) इत्यनेनविद्वान् भूयः अभिजायतेइति यत् उक्तम् , तत् उपपन्नमुक्तम् ॥ २६ ॥

क्षेत्रक्षेत्रज्ञसम्बन्धमुक्तम् आक्षिपति-

कः पुनरिति ।

क्षेत्रज्ञस्य क्षेत्रण सम्बन्धः संयोगो वा समवायो वा? इति विकल्प्य, आद्यं दूषयति -

न तावदिति ।

द्वितीयं निरस्यति -

नापीति ।

वास्तवसम्बन्धाभावेऽपि तयोरध्यासस्वरूपः सोऽस्ति, इति परिहरति -

उच्यत इति ।

भिन्नस्वभावत्वे हेतुमाह -

विषयेति ।

इतरेतरवत् , क्षेत्रे क्षेत्रज्ञे वा तद्धर्मस्य क्षेत्रानधिकरणस्य क्षेत्रज्ञगतस्य चैतन्यस्य क्षेत्रज्ञानाधारस्य च क्षेत्रनिष्ठस्य जाड्यादेः आरोपरूपो योगस्तयोः, इत्याह -

इतरेति ।

तढु निमित्तमाह -

क्षेत्रेति ।

अविवेकात् आरोपितसंयोगे दृष्टान्तमाह -

रज्ज्विति ।

उक्तं सम्बन्धं निगमयति -

सोऽयमिति ।

तस्य निवृत्तियोग्यत्वं सूचयति-

मिथ्येति ।

कथं तर्हि मिथ्याज्ञानस्य निवृत्तिः? इत्याशङ्क्य, आह -

यथेति ।

योऽयं विज्ञानमयः प्राणेषु इत्यादि त्वम्पदार्थविषयं शास्त्रमनुसृत्य विवेकज्ञानमापाद्य महाभूतादिधृत्यन्तात् क्षेत्रात् उफद्रष्ट्टत्वादिलक्षणं प्रागुक्तं क्षेत्रज्ञं मुञ्जेषीकान्यायेन विविच्य सर्वोपाधिविनिर्मुक्तं ब्रह्म स्वरूपेण ज्ञेयं योऽनुभवति, तस्य मिथ्याज्ञानमपगच्छति, इति सम्बन्धः ।

कथमस्य निर्विशेषत्वम् ? क्षेत्रज्ञस्य सविशेषत्वहेतोः सत्त्वात् , इत्याशङ्क्य, आह -

क्षेत्रं चेति ।

बहुदृष्टान्तोक्तेः बहुविधत्वं क्षेत्रस्यद्योत्यते ।

उक्तज्ञानात् मिथ्याज्ञानापगमे हेतुमाह-

यथोक्तेति ।

तथापि कथं पुरुषार्थसिद्धिः? कालान्तरे तुल्यजातीयमिथ्याज्ञानोदयसं भवात् , इत्याशङ्क्य, आह-

तस्येति ।

सम्यग्ज्ञानात् अज्ञानतत्कार्यनिवृत्त्या मुक्तिः, इति स्थिते, फलितमाह-

य एवमिति

॥ २६ ॥