उत्तरग्रन्थमवतारयितुं व्यवहितम् वृत्तं कीर्तयति -
नेत्यादिना ।
अविद्या अनाद्यनिर्वाच्यमज्ञानम् , मिथ्याज्ञानं तत्संस्कारश्च आदिशब्दार्थः ।
व्यवहितमनूद्य अव्यवहितमनुवदति -
जन्मेति ।
व्यवधानाव्यवधानाभ्यां सर्वानर्थमूलत्वात् अज्ञानस्य, तन्निवर्तकं सम्यग्ज्ञानं वक्तव्यम् , इत्याह -
अत इति ।
तस्य असकृदुक्तत्वात् उक्तार्थप्रवृत्तिः वृथा, इत्याशङ्क्य अतिसूक्ष्मार्थस्य शब्दभेदेन पुनः पुनर्वचनम् अधिकारिभेदानुग्रहाय, इति मत्वा आह -
उक्तमिति ।