सर्वत्र परस्य एकत्वात् न उत्कर्षापकर्षवत्वम् , इत्याह -
सममिति ।
परमत्वम् ईश्वरत्वं च उपपादयति-
देहेति ।
आत्मा - जीवः, तमित्यादिना अन्वयोक्तिः आश्रयनाशात् आश्रितस्यापि नाशमाशङ्क्य, आह -
तं चेति ।
अविनश्यन्तमिति विशिनष्टि, इति सम्बन्धः ।
उभयत्र विशेषणद्वयस्य तात्पर्यमाह -
भूतानामिति ।
नाशानाशाभ्यां वैलक्ष्ण्येऽपि कथमत्यन्तवैलक्षण्यम् ? सविशेषत्वभिन्नत्वयोः तुल्यत्वात् , इति शङ्कते -
कथमिति ।
भूतानां संविशेषत्वादिभावेऽपि परस्य तदभावात् आत्यन्तवैलक्षण्यम् , इति वक्तुं जन्मनो भावविकारेषु आदित्वमाह -
सर्वेषामिति ।
तत्र हेतुमाह -
जन्मेति ।
न हि जन्म अन्तरेण उत्तरे विकारा युज्यन्ते, जन्मवतः तदुपलम्भात् , इत्यर्थः ।
विनाशानन्तरभाविनोऽपि विकारस्य कस्यचिदुपपत्तेः न तस्य अन्त्यविकारत्वम् , इत्याशङ्क्य आह -
विनाशादिति ।
तस्य अन्त्यविकारत्वे सिद्धे फलितमाह -
अत इति ।
तेषां जन्मादीनां कार्याणि कादाचित्कमत्वानि तदधिकरणानि, तैः सह इति यावत् ।
परमेश्वरस्य भूतेभ्यः अत्यन्तवैलक्षण्यमुक्तम् उपसंहरति -
तस्मादिति ।
निर्विशेषत्वम् - सर्व भावविकारविरहितत्वं कूटस्थात्वम् । एकत्वम् - अद्वितीयत्वम् । ‘यः पश्यति’ इत्यादि व्याचष्टे -
य एवमिति ।