श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्
विनश्यत्स्वविनश्यन्तं यः पश्यति पश्यति ॥ २७ ॥
ननु सर्वोऽपि लोकः पश्यति, किं विशेषणेन इतिसत्यं पश्यति ; किं तु विपरीतं पश्यतिअतः विशिनष्टि एव पश्यतीतियथा तिमिरदृष्टिः अनेकं चन्द्रं पश्यति, तमपेक्ष्य एकचन्द्रदर्शी विशिष्यते एव पश्यतीति ; तथा इहापि एकम् अविभक्तं यथोक्तं आत्मानं यः पश्यति, सः विभक्तानेकात्मविपरीतदर्शिभ्यः विशिष्यते एव पश्यतीतिइतरे पश्यन्तोऽपि पश्यन्ति, विपरीतदर्शित्वात् अनेकचन्द्रदर्शिवत् इत्यर्थः ॥ २७ ॥

उक्तविशेषणम् ईश्वरं ‘पश्यन्नेव पश्यति’ इत्युक्तमाक्षिपति -

नन्विति ।

ईश्व रपराडमुखस्य अनात्मनिष्ठस्य तद्दर्शित्वेऽपि विपरीतदर्शित्वात् ईश्वरप्रवणस्यैव यसम्क् दर्शित्वम् , इति विवक्षित्वा विशेषणम् इति परिहरति-

सत्यमिति ।

उक्तमेव दृष्टान्तेन विवृणोति -

थथेत्यादिना ।

‘यः पश्यति’ इत्यादेः अर्थमुपसंहरति -

इतरे इति ।

परवस्तु निष्ठेभ्यः व्यतिरिक्ता इत्यर्थः

॥ २७ ॥