श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यथोक्तस्य सम्यग्दर्शनस्य फलवचनेन स्तुतिः कर्तव्या इति श्लोकः आरभ्यते
यथोक्तस्य सम्यग्दर्शनस्य फलवचनेन स्तुतिः कर्तव्या इति श्लोकः आरभ्यते

प्रकृतसम्यग्ज्ञानेन किम् ? इत्यपेक्षायां तत्फलोक्त्या तस्यैव स्तुत्या तद्धेतौ पुरुषं प्रवर्तयितुं श्लोकान्तरम् इत्याह -

यथोक्तस्येति ।

यस्मादित्यस्य ततःशब्देन सम्बन्धः । सर्वभूतेषु तुल्यतयावस्थितं पूर्वोक्तलक्षणमीश्वरं निर्विशेषं पश्यन् आत्मानमात्मना यस्मात् न हिनस्ति, ततः - तस्मात् , मोक्षाख्यां परां गतिं याति, इति योजना । तत्र पादत्रयेण ज्ञानात् अज्ञानध्वस्त्या ध्वस्तिरनर्थस्य उक्ता । अज्ञानमिथ्याज्ञानयोः आवरणयोर्नाशे सर्वोत्कृष्टां गतिं परमपुरुषार्थं परमानन्दमनुभवति विद्वान् , इति चतुर्थपादार्थः ।