श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
समं पश्यन्हि सर्वत्र
समवस्थितमीश्वरम्
हिनस्त्यात्मनात्मानं
ततो याति परां गतिम् ॥ २८ ॥
ननु नैव कश्चित् प्राणी स्वयं स्वम् आत्मानं हिनस्तिकथम् उच्यते अप्राप्तम् हिनस्तिइति ? यथा पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे’ (तै. सं. ५ । २ । ७) इत्यादिनैष दोषः, अज्ञानाम् आत्मतिरस्करणोपपत्तेःसर्वो हि अज्ञः अत्यन्तप्रसिद्धं साक्षात् अपरोक्षात् आत्मानं तिरस्कृत्य अनात्मानम् आत्मत्वेन परिगृह्य, तमपि धर्माधर्मौ कृत्वा उपात्तम् आत्मानं हत्वा अन्यम् आत्मानम् उपादत्ते नवं तं चैवं हत्वा अन्यमेवं तमपि हत्वा अन्यम् इत्येवम् उपात्तमुपात्तम् आत्मानं हन्ति, इति आत्महा सर्वः अज्ञःयस्तु परमार्थात्मा, असावपि सर्वदा अविद्यया हत इव, विद्यमानफलाभावात् , इति सर्वे आत्महनः एव अविद्वांसःयस्तु इतरः यथोक्तात्मदर्शी, सः उभयथापि आत्मना आत्मानं हिनस्ति हन्तिततः याति परां गतिम् यथोक्तं फलं तस्य भवति इत्यर्थः ॥ २८ ॥

‘न हिनस्त्यात्मनात्मानम् ‘ इति यथाश्रुतमादाय चोदयति -

नन्विति ।

‘न पृथिव्याम् ‘ इति प्रप्तिद्वारा निषेधवत् ‘नान्तरिक्षे न दिवि’ इति प्राप्त्यभावाच्च अयं निषेधो मुख्यो नेष्यते, तथा इहापि प्राप्तिं विना निषेधो न युक्तिमान् , इत्याह -

यथेति ।

अज्ञानाम् आत्मनैव आत्महिसासम्भवात्  विदुषां तदभावोक्तिः युक्ता, इति समादत्ते -

नैष दोष इति ।

सङ्ग्राहवाक्यं विवृणोति -

सर्वो हीति ।

अनात्मशब्दो देहादिविषयः अविदुषाम् आरोपितात्महन्तृत्वं निगमयति -

इत्यात्महेति ।

तथापि पारमार्थिकस्य आत्मनो हननाभावात् न तेषां सर्वेषाम् आत्महन्तृत्वम् , इत्याशङ्क्य आह -

यस्त्विति ।

उक्तरीत्या सर्वेषाम् अविदुषाम् आत्महन्तृत्वं सिद्धम् , इति उपसंहरति -

सर्व इति ।

आत्मनैव आत्महननम् अविदुषां दृष्टम् , तदिह विद्वद्विषये शक्यं निषेद् - धुम् , इत्याह -

यस्त्वितर इति ।

आरोपानारोपाभ्याम् , इत्यर्थः ।

उभयथापीति ।

आरोपानारोपाभ्याम् , इत्यर्थः ।

ज्ञानात् अनर्थभ्रंशे पूर्वोक्तपरमानन्दप्राप्त्या परितृप्तत्वं युक्तम् , इत्याह -

तत इति

॥ २८ ॥