श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वभूतस्थम् ईश्वरं समं पश्यन् हिनस्ति आत्मना आत्मानम्इति उक्तम्तत् अनुपपन्नं स्वगुणकर्मवैलक्षण्यभेदभिन्नेषु आत्मसु, त्येतत् आशङ्क्य आह
सर्वभूतस्थम् ईश्वरं समं पश्यन् हिनस्ति आत्मना आत्मानम्इति उक्तम्तत् अनुपपन्नं स्वगुणकर्मवैलक्षण्यभेदभिन्नेषु आत्मसु, त्येतत् आशङ्क्य आह

श्लोकान्तरं शङ्कोत्तरत्वेन अवतारयितुं अनुवदति -

सर्वेति ।

प्रतिदेहं धर्माधर्मादिमत्वेन आत्मनो भेदभानात् न सम्यग्दर्शनम् , इति शङ्कते -

तदिति ।

स्वगुणैः - सुखदुःखादिभिः, स्वकर्मभिश्च - धर्माधर्माख्यैः वैलक्षण्यात् प्रतिदेहं भेदे, तद्विशिष्टेषु आत्मसु कथं साम्येन दर्शनम् ? इत्येतदाशङ्क्य, परिहरति इत्याह -

एतदिति ।