प्रकृतिशब्दस्य स्वभाववाचित्वं व्यावर्तयति -
प्रकृतिरिति ।
मायाशब्दस्य संवित्पर्यायत्वं प्रत्याह -
त्रिगुणेति ।
उक्ता परस्य शक्तिः - माया, इत्यत्र श्रुतिसंमतिमाह -
मायां त्विति ।
अन्येन केनचित् क्रियमाणानि न भवन्ति कर्माणि, इति एवकारार्थमाह -
नान्येनेति ।
किं तत् अन्यत् निषेध्यम् ? इत्युक्ते, साङ्ख्याभिप्रेता प्रधानाख्या प्रकृतिः, इत्याह -
महदादीति ।
सर्वप्रकारत्वम् - काम्यत्वनिषिद्धत्वादिना प्रकारबाहुल्यम् । आत्मानम् उक्तविशेषणं यः पश्यति, इति पूर्वेण सम्बन्धः ।
‘स पश्यति’ (भ. गी. १३-२७) इति अयुक्तम् , पुनरुक्तेः, इत्याशङ्क्य, आह -
स परमार्थेति ।
आत्मनां प्रतिदेहं भिन्नत्वे तेषु समदर्शनम् अयु्क्तम् , इत्युक्तस्य कः समाधिः? इत्याशङ्क्य, आह -
निर्गुणस्येति
॥ २९ ॥