श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्
विनश्यत्स्वविनश्यन्तं यः पश्यति पश्यति ॥ २७ ॥
समं निर्विशेषं तिष्ठन्तं स्थितिं कुर्वन्तम् ; क्व ? सर्वेषु समस्तेषु भूतेषु ब्रह्मादिस्थावरान्तेषु प्राणिषु ; कम् ? परमेश्वरं देहेन्द्रियमनोबुद्ध्यव्यक्तात्मनः अपेक्ष्य परमेश्वरः, तं सर्वेषु भूतेषु समं तिष्ठन्तम्तानि विशिनष्टि विनश्यत्सु इति, तं परमेश्वरम् अविनश्यन्तम् इति, भूतानां परमेश्वरस्य अत्यन्तवैलक्षण्यप्रदर्शनार्थम्कथम् ? सर्वेषां हि भावविकाराणां जनिलक्षणः भावविकारो मूलम् ; जन्मोत्तरकालभाविनः अन्ये सर्वे भावविकाराः विनाशान्ताः ; विनाशात् परो कश्चित् अस्ति भावविकारः, भावाभावात्सति हि धर्मिणि धर्माः भवन्तिअतः अन्त्यभावविकाराभावानुवादेन पूर्वभाविनः सर्वे भावविकाराः प्रतिषिद्धाः भवन्ति सह कार्यैःतस्मात् सर्वभूतैः वैलक्षण्यम् अत्यन्तमेव परमेश्वरस्य सिद्धम् , निर्विशेषत्वम् एकत्वं यः एवं यथोक्तं परमेश्वरं पश्यति, सः पश्यति

सर्वत्र परस्य एकत्वात् न उत्कर्षापकर्षवत्वम् , इत्याह -

सममिति ।

परमत्वम् ईश्वरत्वं च उपपादयति-

देहेति ।

आत्मा - जीवः, तमित्यादिना अन्वयोक्तिः आश्रयनाशात् आश्रितस्यापि नाशमाशङ्क्य, आह -

तं चेति ।

अविनश्यन्तमिति विशिनष्टि, इति सम्बन्धः ।

उभयत्र विशेषणद्वयस्य तात्पर्यमाह -

भूतानामिति ।

नाशानाशाभ्यां वैलक्ष्ण्येऽपि कथमत्यन्तवैलक्षण्यम् ? सविशेषत्वभिन्नत्वयोः तुल्यत्वात् , इति शङ्कते -

कथमिति ।

भूतानां संविशेषत्वादिभावेऽपि परस्य तदभावात् आत्यन्तवैलक्षण्यम् , इति वक्तुं जन्मनो भावविकारेषु आदित्वमाह -

सर्वेषामिति ।

तत्र हेतुमाह -

जन्मेति ।

न हि जन्म अन्तरेण उत्तरे विकारा युज्यन्ते, जन्मवतः तदुपलम्भात् , इत्यर्थः ।

विनाशानन्तरभाविनोऽपि विकारस्य कस्यचिदुपपत्तेः न तस्य अन्त्यविकारत्वम् , इत्याशङ्क्य आह -

विनाशादिति ।

तस्य अन्त्यविकारत्वे सिद्धे फलितमाह -

अत इति ।

तेषां जन्मादीनां कार्याणि कादाचित्कमत्वानि तदधिकरणानि, तैः सह इति यावत् ।

परमेश्वरस्य भूतेभ्यः अत्यन्तवैलक्षण्यमुक्तम् उपसंहरति -

तस्मादिति ।

निर्विशेषत्वम् - सर्व भावविकारविरहितत्वं कूटस्थात्वम् । एकत्वम् - अद्वितीयत्वम् । ‘यः पश्यति’ इत्यादि व्याचष्टे -

य एवमिति ।