उपदेशजनितं प्रत्यक्षदर्शनमनुवदति -
आत्मैवेति ।
भूतानां विकाराणां नानात्वं प्रकृत्या सह आत्ममात्रतया प्रलीनं पश्यति । नहि भूतपृथक्त्वं सत्यां प्रकृतौ, केवले परस्मिन् विलापयितुं शक्यत इत्यर्थः ।
परिपूर्णात् आत्मन एव प्रकृत्यादेः विशेषान्तस्य स्वरूपलाभम् उपलभ्य तन्मात्रतां पश्यति, इत्याह -
तत एवेति ।
उक्तमेव विस्तारं श्रत्यवष्टम्भेन स्पष्टयति -
आत्मत इति ।
ब्रह्मसम्पत्तिर्नाम पूर्णत्वेन अभिव्यक्तिः, अपूर्णत्वहेतोः सर्वस्य आत्मसाकृतत्वात् , इत्याह -
ब्रह्मैवेति ।
ज्ञानसमानकालैव मुक्तिः, इति सूचयति -
तदेति
॥ ३० ॥