श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३३ ॥
यथा प्रकाशयति अवभासयति एकः कृत्स्नं लोकम् इमं रविः सविता आदित्यः, तथा तद्वत् महाभूतादि धृत्यन्तं क्षेत्रम् एकः सन् प्रकाशयतिकः ? क्षेत्री परमात्मा इत्यर्थःरविदृष्टान्तः अत्र आत्मनः उभयार्थोऽपि भवतिरविवत् सर्वक्षेत्रेषु एक एव आत्मा, अलेपकश्च इति ॥ ३३ ॥

दृष्टान्तेन विवक्षितमर्थं दर्शयति -

रवीति ।

उभयविधमर्थमेव स्फुटयति-

रविवदिति

॥ ३३ ॥