अध्यायार्थं सकलम् उपसंहरति -
समस्तेति ।
विशेषं - कौटस्थ्यपरिणामादिलक्षणम् । तदेवम् अमानित्वादिनिष्ठतया क्षेत्रक्षेत्रज्ञयाथात्म्यविज्ञानवतः सर्वानर्थनिवृत्या परिपूर्णपरमानन्दाविर्भावलक्षणपुरुषार्थसिद्धिः, इति सिद्धम्
॥ ३४ ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने त्रयोशोऽध्यायः ॥ १३ ॥