क्षेत्रक्षेत्रज्ञसंयोगस्य सर्वोत्पत्तिनिमित्तत्वम् अज्ञातं ज्ञापयितुम् अध्यायान्तरम् अवतारयन् , अध्याययोः उत्थाप्योत्थापकत्वरूपां सङ्गतिम् आह -
सर्वमिति ।
विधान्तरेण अध्यायारम्भं सूचयति -
अथवेति ।
तदेव वक्तुम् उक्तम् अनुवदति -
ईश्वरेति ।
प्रकृतिस्थत्वम् - पुरुषस्य प्रकृत्या सह ऐक्याध्यासः । तस्यैव गुणेषु - शब्दादिविषयेषु सङ्गः - अभिनिवेशः । षड्विधाम् आकाङ्क्षां निक्षिप्य, तदुत्तरत्वेन अध्यायारम्भे पूर्ववदेव पूर्वाध्यायसम्बन्धसिद्धिः, इत्याह -
कस्मिन्निति ।