पूर्वोक्तेन अर्थेन अस्य अध्यायस्य समुच्चयार्थः चकारः । ‘परम् ‘ इत्यस्य भाविकालार्थत्वं व्यावर्तयितुं सङ्गतिम् आह -
परमिति ।
‘ भूयः’ शब्दस्य अधिकार्थत्वम् इह नास्ति ; इत्याह -
पुनरिति ।
पुनःशब्दार्थमेव विवृणोति -
पूर्वेष्विति ।
पूनरुक्तिः तर्हि ? इत्याशङ्क्य सूक्ष्मत्वेन दुर्बोधत्वात् पुनर्वचनम् अर्थवत् इत्याह -
तच्चेति ।
विशेष्यं प्रश्नद्वारा निर्दिशति -
किं तदिति ।
निर्धारणार्थां षष्ठीम् आदाय तस्य प्रकर्षं दर्शयति -
सर्वेषामिति ।
‘परम् ‘ ‘उत्तमम् ‘ इति पुनरुक्तिम् आशङ्क्य, विषयफलभेदात् मैवम् , इत्याह -
उत्तमेति ।
ज्ञानं ज्ञेयम् इत्यादौ ज्ञानशब्देन अमानित्वादीनाम् उक्तत्वात् , तन्मध्ये च ज्ञानस्य साध्यत्वेन उत्तमत्वात् न तस्य वक्तव्यता, इति आशङ्क्य आह -
ज्ञानानामिति ।
न अमानित्वादीनां, ‘ग्रहणम् ‘ इति शेषः ।
इतिशब्दात् ऊर्ध्वं पूर्ववदेव शेषो द्रष्टव्यः यथोक्तज्ञानापेक्षया कुतः तज्ज्ञानस्य प्रकर्षः ? तत्र आह -
तानि इति ।
स्तुतिफलम् आह -
श्रोतृबुद्धीति ।
ज्ञानं ज्ञात्वा - ज्ञानस्य ज्ञेयत्वोपगमात् अनवस्था, इत्याशङ्क्य आह -
प्राप्येति ।
मुनिशब्दस्य चतुर्थाश्रमविषयत्वे तन्मात्रादेव ज्ञानायोगात् कुतः तेषां मुक्तिः ? इति आशङ्क्य आह -
मननेति ।
सिद्धेः ज्ञानत्वं पराम् इति विशेषणात् व्यावर्त्य, मुक्तित्वम् आह -
मोक्षाख्यामिति ।
देहाख्यस्य बन्धनस्य अध्यक्षत्वम् आह -
अस्मादिति
॥ १ ॥